________________
नाग १
पंचसं० स्थानमपूर्वकरणगुणस्थानं. अस्मिश्च गुणस्थानके कालत्रयवर्त्तिनो नानाजीवानाश्रित्य प्र-
तिसमयं यथोत्तरमधिकवृध्ध्या असंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि नवंति. टीका
तयाहि-येऽस्य गुणस्थानस्य प्रश्रमसमयं प्रपन्नाः प्रतिपद्यते प्रतिपत्स्यते च, तान् सर्वान॥५॥ पेक्ष्य जघन्यादीन्युत्कृष्टांतान्यसंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि लन्यते,
क्वचित्कदाचित्केषांचित्प्रथमसमयवर्तिनां परस्परमध्यवसायस्थाननानात्वस्यापि नावात. तस्य च नानात्वस्यैतावत एव केवलज्ञानेनोपलब्धत्वात्. अत एवेदमपि न वाच्यं, कालत्रयवनिनामेतद्गुणस्थानकप्रश्रमसमयप्रतिपत्तृगामानंत्यात् परस्परमध्यवसायस्थानानां नानात्वाचाऽनंतान्यध्यवसायस्थानानि प्राप्नुवंतीति, बहूनां प्राय एकाध्यवसायस्थानवर्तित्वात.
ततो हितीयसमये तदन्यान्यधिकतराण्यध्यवसायस्थानानि लन्यते, तृतीयसमये तद । न्यान्यधिकतराणि, चतुर्थसमये तदन्यान्यधिकतराणि, चतुर्थसमये तदन्यान्यधिकतराणीत्येवं * यावञ्चरमसमयः, एतानि च स्थाप्यमानानि विषमचतुरस्र क्षेत्रमास्तृणंति. ननु वितीयादि
समयेष्वध्यवसायस्थानानां वृक्षौ किं कारणं? नव्यते-स्वन्नावविशेषः, एतजुणस्थानकप्रति
॥ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org