________________
पंचसं०
टीका
॥ २६८ ॥
ज्ञानोपयोगोपयुक्त एव जवति, न दर्शनोपयोगयुक्तः, दर्शनोपयोगस्य द्वितीयसमये जावात; ततो ज्ञानं प्रधानं, तदावारकं च ज्ञानावरणं कर्म, ततस्तत्प्रश्रममुक्तं; ततस्तदनंतरं दर्शनावरणं, ज्ञानोपयोगाच्च्युतस्य दर्शनोपयोगे ऽवस्थानात् एते च ज्ञानदर्शनावरले स्वविपाकमुपदर्शयंती यथायोग्यमवश्यं सुखदुःखरूपवेदनीयविपाकोदयनिमित्ते भवतः, तथाहि - ज्ञानावरमुपचयोत्कर्षमधिरूढं विपाकतोऽनुजवन सूक्ष्मसूक्ष्मतरवस्तु विचाराऽसमर्थमात्मानं जानानः खिद्यते नूरिशोकं. ज्ञानावरणकर्मक्षयोपशमपाटवोपेतश्च सूक्ष्मसूक्ष्मतराणि वस्तूनि निजप्रज्ञया जिंदानो बहुज्ञानातिशायिनमात्मानं पश्यन् वेदयते सुखं तथा निविडदर्शनावरविपाकोदये जात्यंधादिरनुज्जवति दुःखमनुतं, दर्शनावरणक्षयोपशमपटिष्टतापरिकरितश्व स्पष्टचक्षुराद्युपेतो यथावस्तूनि पश्यन् वेदयते प्रमोदं तत एतदर्थप्रतिपत्त्यर्थ दर्शनावरणानंतरं वेदनीयग्रहणं. वेदनीयं च सुखदुःखे जनयत्यनीष्टाऽनजीष्टविषय संबंधातू, अनीष्टानभीष्टविषयसंबंधे चावश्यं संसारिणां रागद्वेषौ तौ च मोहनीयं, तत एतदर्थप्रतिपत्त्यर्थं वेदयानंतर मोहनीयग्रहणं. मोहनीयमूढाश्च जंतवो बह्वारंभपरिग्रहाद्यासक्ता नरकाद्यायुष्क
Jain Education International
For Private & Personal Use Only
नाग १
॥ २६८ ॥
www.jainelibrary.org