________________
स्वोपश
वृत्ति
विभूषितं योगशास्त्रम्
॥ ९९८ ॥
Jain Education
Talalalaek
अस्य क्रमस्य व्यतिक्रमे फलं श्लोकद्वयेनाह-
त्रीन् पक्षानन्यथात्वेऽस्य मासषङ्केन पञ्चता । पक्षद्वयं विपर्यासेऽभीष्टबन्धुविपद्भवेत् ॥ ७० ॥ भवेत्तु दारुणो व्याधिरेकं पक्षं विपर्यये । द्वित्रांद्यहं विपर्यासे कलहादिकमुद्दिशेत् ॥ ७१ ॥
पूर्वोक्तस्य चन्द्र-सूर्यचारस्य त्रीन् पक्षान् यावद् व्यतिक्रमे षड्भिर्मासैर्मरणम्, द्वौ पक्षौ यावद्वयतिक्रमेऽभीष्टबन्धुविपद्भवेत्, पक्षमेकं यावद्वयतिक्रमे दारुणो व्याधिर्भवेत् ॥ ७० ॥ ७१ ॥
तथा
एकं द्वे त्रीण्यहोरात्राण्यर्क एव मरुद्वहन् । वर्षैस्त्रिभिर्द्वाभ्यामेकेनाऽन्तायेन्दो रुजे पुनः ॥ ७२ ॥
एकहोरात्रम् अर्क व नो वहन् वर्षत्रयेण मरणाय, द्वे अहोरात्रे वहन वर्षद्वयेन त्रीणित्वहोरात्राणि वहन् वर्षेणैकेन । इन्दौ तु तथा वहन् पवनो रोगाय ॥ ७२ ॥
१ द्विव्याद्यहं हे । द्विध्याद्यह० - मु. ॥। २ वर्षत्र येण, अहोरात्रद्वयं वर्षद्वयेन शां. ॥
For Private & Personal Use Only
ladalalelalaK
MEIN
पञ्चमः प्रकाशः
७०-७१-७२
॥ ९९८ ॥
नाडीराश्रित्य वायूनां विविधानि फलानि
10
www.jainelibrary.org.