________________
॥९९७॥
HEIGHDTHHEHEROHOMEHOREMECHEHOOKERHOICEMEHICKE
उदयनियममुक्त्वाऽस्तनियममाह--
शशाङ्केनोदये वायोः सूर्येणास्तं शुभावहम् ।
उदये रविणा त्वस्य शशिनाऽस्तं शिवं मतम् ॥ ६६॥ यत्र दिने शशाङ्केन वायोरुदयस्तत्रास्तं सूर्येण शुभावहम् , यत्र च सूर्येणोदयस्तत्रास्तं शशाङ्केन शुभावहम् ॥६६॥ पूर्वोक्तमर्थ त्रिभिः श्लोकैर्विस्तरेणाह
सितपक्षे दिनारम्भे यत्नेन प्रतिपदिने । वायोर्वीक्षेत संचारं प्रशस्तमितरं तथा ॥ ६७ ॥ उदेति पवनः पूर्वं शशिन्येष त्र्यहं ततः। संक्रामति त्र्यहं सूर्ये शशिन्येव पुनस्त्र्यहम् ॥ ६८ ॥ वहेद्यावद् बृहत्पर्व क्रमेणानेन मारुतः।।
कृष्णपक्षे पुनः सूर्योदयपूर्वमयं क्रमः ॥ ६९ ॥ स्पष्टाः ॥ ६७ ॥ ६८ ।। ६९ ॥ १ पूर्वोक्तमेवार्थ-मु.॥
BHCHEHEHCHEHEHCHCHCHCHEHERRBIRBHEHEREHEHCHEHEHOTOHD
Jain Education
202
For Private & Personal Use Only
www.jainelibrary.org