________________
॥ ९९९ ॥
Jain Education
तथा-
tional
मासमेकं स्वावेव वहन् वायुर्विनिर्दिशेत् । अहोरात्रावधिं मृत्युं शशाङ्के तु धनक्षयम् ॥ ७३ ॥
स्पष्टः ।। ७३ ।।
तथा-
वायुस्त्रिमार्गगः शंसेन्मध्याह्नात् परतो मृतिम् । दशाहं तु द्विमार्गस्थः संक्रान्तौ मरणं दिशेत् ॥ ७४ ॥
त्रिषु मार्गेषु इडा-पिङ्गला-सुषुम्णालक्षणेषु गच्छतीति त्रिमार्गगो वायुः मध्याह्नात् परतो मरणं शंसेत् । दश दिनानि यावदसंक्रान्त एव द्विमार्गगो वायुः ततः परं संक्रामन् मरणं सूचयति ॥ ७४ ॥
तथा-
दशाहं तु वहन्निन्दावेवोद्वेगरुजे मरुत् ।
इतश्चेतश्च यामार्धं वहन् लाभा - ऽर्चनादिकृत् ॥ ७५ ॥
For Private & Personal Use Only
10
॥ ९९९ ॥
www.jainelibrary.org