________________
॥ ९९५ ॥
Jain Education
अथ नाडीरेवाह-
tional
इडा च पिङ्गला चैव सुषुम्णा चेति नाडिकाः । शशि सूर्य- शिवस्थानं वाम-दक्षिण-मध्यगाः ॥ ६१ ॥
वामगा इडा नाडी शशिनः स्थानम्, दक्षिणगा पिङ्गला नाम रवेः स्थानम् मध्यमगा सुषुम्णा नाम शिवस्थानम् ॥ ६१ ॥
एतासु वायुसंचारे फलं श्लोकद्वयेनाह -
पीयूषमिव वर्षन्ती सर्वगत्रेषु सर्वदा । वामामृतमयी नाडी सम्मताऽभीष्टसूचिका ॥ ६२ ॥
वहन्त्यनिष्टशंसित्री संहर्त्री दक्षिणा पुनः । सुषुम्णा तु भवेत् सिद्धि-निर्वाणफलकारणम् ॥ ६३॥ स्पष्टौ । नवरं सिद्धयोऽणिमाद्याः, निर्वाणं मुक्तिः ॥ ६२ ॥ ६३ ॥
For Private & Personal Use Only
alalelease
10
॥ ९९५ ॥
www.jainelibrary.org