________________
॥९९३॥
HERCHOICISMERCISHISHEKSHEETERMEREHREMEMBERSHISH
रामाराज्यादिसंपूर्णेः पुत्र-स्वजन-बन्धुभिः । सारेण वस्तुना चापि योजयेद् वरुणः क्षणात् ॥ ५४॥ कृषि-सेवादिकं सर्वमपि सिद्धं विनश्यति । मृत्युभीः कलहो वैरं त्रासश्च पवने भवेत् ॥ ५५॥ भयं शोकं रुजं दुःखं विघ्नव्यूहपरंपराम् ।
संसूचयेद्विनाशं च दहनो दहनात्मकः ॥ ५६ ॥ स्पष्टः ॥ ५३ ॥ ५४ ॥ ५५ ॥ ५६ ॥ एतेषामेव सूक्ष्मतरं फलमाह--
शशाङ्क-रविमार्गेण वायवो मण्डलेष्वमी।
विशन्तः शुभदाः सर्वे निष्कामन्तोऽन्यथा स्मृताः ॥ ५७ ॥ सर्वेऽपि वायवः पुरन्दरादयः शशाङ्कमार्गेण वामेन रविमार्गेण दक्षिणेन प्रविशन्तः शुभावहाः, निःसरन्तस्तु || अशुभावहाः ॥ ५७॥
॥९९३॥ १ वारुणः-हे.
EMECHEREHEHREVERESTERESHRESERVERCHEHEYENER
Jain Education in 205 nal
For Private & Personal Use Only
22ww.jainelibrary.org