SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ॥९९१ ॥ नासिकारन्ध्रमापूर्य पीतवर्णः शनैर्वहन् । कवोष्णोऽष्टाङ्गलः स्वच्छो भवेद्वायुः पुरन्दरः ॥ ४८ ॥ नासाविवरमापूर्य पीतवर्णः शनैमन्दं मन्दं वहन् किश्चिदुष्णः अष्टाङ्गलप्रमाणः स्वच्छः पार्थिवः पुरन्दरनामा वायुः ॥ ४८ ॥ धवलः शीतलोऽधस्तात् त्वरितत्वरितं वहन् । द्वादशाङ्गलमानश्च वायुर्वरुण उच्यते ॥ ४९ ॥ वर्णेन धवलः, स्पर्शेन शीतः, अधस्तादधः त्वरितत्वरितं वहन् द्वादशाङ्गुलप्रमाणो वायुर्वरुणनामा ॥ ४९ ॥ तथा-- REACHERCHEHEREHETRIEIGHCHEHERCHCHINCHIGHCHEHENSHISHEHATI तथा उष्णः शीतश्च कृष्णश्च वहन तिर्यगनारतम् । षडङ्गलप्रमाणश्च वायुः पवनसंज्ञितः ॥ ५० ॥ स्पर्शेन क्वचिदुष्णः क्वचिच्छीतः, कृष्णश्च वर्णेन, तिर्यक् सन्ततं वहन् षडङ्गुलप्रमाणो वायुः पवननामा ॥ ५० ॥ १ सच्छो-खं. ॥ २ शनैर्मन्दं वहन्-शां. खं. संपू. ॥ ३ उष्णशीतश्च-शां. ॥ ४ तिर्यगना०-शां. ॥ ५ कृष्णो वर्णेन-हे. मु.॥ ॥ ९९ Jain Educatior ational For Private & Personal use only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy