________________
स्वोपक्ष
वृत्ति
पञ्चमः प्रकाश श्लोको ४६-४७
विभूषितं योगशास्त्रम्
॥९९०॥
EHENEMIERRCHEMIHIREEKSHEECHCHORSHISHEKSHISHEKSHCHCHOTE
अथाग्नेयम्--
ऊर्ध्वज्वालाचितं भीमं त्रिकोणं स्वस्तिकान्वितम् ।
स्फुलिङ्गपिङ्गं तबीजं ज्ञेयमाग्नेयमण्डलम् ॥ ४६॥ ... ऊर्ध्वगामिनीभिर्जालाभिश्चितम् , भीमं भयानकम् , त्रिकोणम् , कोणेषु स्वस्तिकाङ्कितम् , स्फुलिङ्गवत् पिङ्गम् , | तदित्यनेनाग्नेः परामर्शः, बीजं च रेफः, एतदाग्नेयं मण्डलम् ॥ ४६ ॥ अश्रद्दधानबोधार्थमाह--
अभ्यासेन स्वसंवेद्यं स्यान्मण्डलचतुष्टयम् ।
क्रमेण संचरंस्तत्र वायुज्ञेयश्चतुर्विधः ॥ ४७ ॥ अभ्यासेन वसंवेद्यमेतत् मण्डलचतुष्टयं स्यात् , नापातमात्रेण, अत्र मण्डलचतुष्टये संचरन् वायुमण्डलभेदेन चतुर्विधो भवतीति क्रमेणाह ॥४७॥
१ ज्वलांचित-संपू. मु.॥ २ स्वस्तिकान्वित-संपूछ । स्वस्तिकाश्चित-मु.॥ ३ एतदाग्नेयमण्डलम् ,-मु. शां.॥ ४ संचरन्नत्र-मु. खं.॥
मण्डलचतुष्टय निरूपणम्
Jain Education
1
onal
For Private & Personal Use Only
www.jainelibrary.org