________________
॥९८९॥
HEHCHCHHEIGHERERRIBERRIERHEHEREHCHEHEHEHEHEREHE
पृथिवीबीजं क्षि'लक्षणं तेन मध्ये संपूर्णम् , चतुरस्रम् , कोणेषु वज्रलाञ्छनम् , तप्तस्वर्णवर्णम् , भौमं मण्डलं स्यात् ॥ ४३॥ अथ वारुणम्--
स्यादर्धचन्द्रसंस्थानं वारुणाक्षरलाञ्छितम् ।
चन्द्राभममृतस्यन्दसान्द्रं वारुणमण्डलम् ॥४४॥ अष्टमीचन्द्रसंस्थानम् , वारुणोऽक्षरो 'व'कारस्तेन लाञ्छितम् , चन्द्राभं श्वेतवर्णम् , अमृतस्य पीयूषस्य स्यन्दः क्षरणं तेन सान्द्रं बहलं वारुणं मण्डलम् ॥ ४४ ॥ अथ वायव्यम्
स्निग्धाञ्जन-धनच्छायं सुवृत्तं बिन्दुसंकुलम् ।
दुर्लक्षं पवनाकान्तं चञ्चलं वायुमण्डलम् ॥ ४५॥ स्निग्धयोरञ्जन-धनयोरिव च्छाया यस्य तत्तथा, मुष्टु वृत्तं वर्तुलम् , मध्ये बिन्दुसंकुलम् , दुर्लक्षं दुरवगमम् , परितः पवनवेष्टितम् , चञ्चलं वायव्यं मण्डलम् ॥४५॥
पक्षितिल-मु. संपू.॥ २ चतुर_-हे.॥ ३ तप्तस्वर्णप्रभं-हे. ॥ ४ वारुणाक्षरो-मुः। वारुणो अक्षरो-संपू० ।। ५ दुर्लक्ष-खं.हे.॥ ६ दुर्लक्षं-खं. हे.॥ ७ वायव्यमण्डलम्-हे. मु.॥
BHEHCHCHHISHEHCHEMERRHETRIECHEREHEHEHRISHEREHEREHERI
॥९८९॥
Jain Education
Woonal
For Private & Personal Use Only
www.jainelibrary.org