________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
पञ्चमः प्रकाश श्लोकाः ४१-४२-४३ | ॥९४८॥
॥९८८॥
हृदये स्थिरीकृते मनसि वायोः स्वरूपज्ञानार्थ प्रक्रमते--
व मण्डले गतियोः संक्रमः क क विश्रमः ।
का च नाडीति जानीयात्तत्र चित्ते स्थिरीकृते ॥४१॥ कुत्र मण्डले वायोर्गतिः ? क्क संक्रमणम् ? व वा विश्रमः? का च नाडी वामादिरूपा ? इति जानीयात् तत्र हृदये | स्थिरीकृते मनसि ॥४१॥ तत्र मण्डलान्याह--
मण्डलानि च चत्वारि नासिकाविवरे विदुः।
भौम-वारुण-वायव्या-ऽऽग्नेयाख्यानि यथोत्तरम् ॥ ४२ ॥ यथोत्तरमिति प्रथमं भौम पार्थिवं मण्डलम् , ततो वारुणमाप्यम् , ततो वायव्यम् , ततोऽप्याग्नेयम् ॥ ४२ ॥ भौम मण्डलं व्याचष्टे--
पृथिवीबीजसंपूर्ण वज्रलाञ्छनसंयुतम् ।
चतुरस्रं द्रुतस्वर्णप्रभं स्याद् भौममण्डलम् ॥ ४३॥ १ हृदये-नास्ति शां. ॥ २ न्याहुः-मु.॥ ३ चतुरथं-हे.॥
हृदये वायुमनोधारणस्य फलं मण्डल
चतुष्टय. का निरूपणं च
Jain Education
For Private & Personal Use Only
5
ww.jainelibrary.org