________________
॥९८७॥
कालं मृत्युम , आयुर्जीवितम् , शुभाशुभफलस्य चोदयं जानीयात, एतच्च यथास्थानं वक्ष्यते ॥ ३८ ॥ उत्तरकरणीयमाह--
ततः शनैः समाकृष्य पवनेन समं मनः ।
योगी हृदयपद्मान्तर्विनिवेश्य नियन्त्रयेत् ॥ ३९ ॥ ततोऽनन्तरं शनैर्मन्दं मन्दं ब्रह्मरन्ध्रात् पवनेन सह मनः समाकृष्य हृदयपद्मस्यान्तर्मध्ये विनिवेश्य नियन्त्रयेत् धारयेत् ॥ ३९॥ हृदयस्थे पवने मनसि च यत्फलं तदाह--
ततोऽविद्या विलीयन्ते विषयेच्छा विनश्यति ।
विकल्पा विनिवर्तन्ते ज्ञानमन्तर्विजृम्भते ॥४०॥ अविद्याः कुवासना विलीयन्ते । शेषं स्पष्टम् ॥ ४० ॥
HEREMIEREHEACHEMEREMCHEICHEIGHBHBHEHEHCHEHERELETECHIKHEL
८७॥
१ एतद् यथा-शां.॥ २ विलीयते-शां. ॥ ३ अविद्या-खं.॥
Jain Education
For Private & Personal Use Only
w
w w.jainelibrary.org