________________
HEHENGEET
पञ्चमः
स्वोपपति- विभूषितं योगशास्त्रम्
HREET
उत्क्रान्तिरुत्क्रमणम् , प्रायणकालेऽचिरादिमार्गेण स्ववशित्वेनोत्क्रान्ति करोतीत्यर्थः। जल-पङ्कादिभिश्चाबाधा, तैन | प्रतिहन्यत इत्यर्थः, आदिशब्दात् कण्टकादिपरिग्रहः, उदाननिर्जये सति । व्यानस्य जये शीतोष्णाभ्यामसङ्गः अबाधा,
प्रकाशः कान्तिदीप्तिः, अरोगिताऽऽरोग्यम् ।। २४ ॥
श्लोको प्राणादीनां जये प्रत्येकं फलमुक्त्वा सामस्त्येन फलमाह
२५-२६
॥९८२॥ यत्र यत्र भवेत् स्थाने जन्तो रोगः प्रपीडकः। तच्छान्त्यै धारयेत् तत्र प्राणादिमरुतः सदा ॥२५॥
प्राणादिजयस्पष्टः ।। २५ ॥
काफलम् पूर्वोक्तमुपसंहरन्नुत्तरं संबध्नाति--
एवं प्राणादिविजये कृताभ्यासः प्रतिक्षणम् ।
धारणादिकमभ्यस्येन्मनःस्थैर्यकृते सदा ॥ २६ ॥ ___ धारणादिकमभ्यस्येत् , आदिशब्दात् ध्यान-समाधी, किमर्थम् ? मनःस्थैर्यार्थम् ॥ २६ ॥
१ प्रायेण काले-शां. हे.। प्रयाणकाले-मु.। प्रायणकाले परलोकगमनकाले इत्यर्थः । “प्रायः संन्यास्यनशने । प्रकर्षण अयन्तेऽनेन परलोकं प्रायः। संन्यसनं संन्यासः सर्वत्यागेन मरणाध्यवसायः, सोऽस्त्यत्र संन्यासि, संन्यासयुक्तम्, तच्च तदनशनं च संन्यास्यनशनम् , तत्र" इति स्वोपज्ञवृत्तिसहिते अभिधानचिन्तामणौ ॥ २ शीतोष्णाभ्यां न सङ्गः-शां.॥
HETCHCHCHCHETCHENTERNEVEHCHE
Jain Education
anal
For Private & P
ww.jainelibrary.org