________________
॥९७९॥
5
रक्तो वर्णेन । हृदयं कण्ठः तालु भ्रम
स्थानमस्य । स उदानो गत्यागतिप्रयोगेण वशमायत्ततां है नेयः ॥१८॥ गत्यागतिप्रयोगमेवाह
नासाकर्षणयोगेन स्थापयेत्तं हृदादिषु ।
बलादुत्कृष्यमाणं च रुद्धा रुद्धा वशं नयेत् ॥ १९ ॥ तमुदानं हृदयादिषु स्थापयेत् । केन ? नासाकर्षणयोगेन, नासया आकर्षणमधस्तान्नयनं स एव योगस्तेन, तथाऽप्यजीयमानं बैलादुत्कृष्यमाणं ऊर्ध्वं नीयमानं रुदा रुद्धा विधार्य वशं नयेत् ॥ १९ ॥ अथ व्यानस्य--
सर्वत्वग्वृत्तिको व्यानः शक्रकार्मुकसन्निभः ।
जेतव्यः कुम्भकाभ्यासात् सङ्कोच प्रसूतिक्रमात् ॥ २० ॥ १ हृदयकण्ठतालुभ्रमध्यमूर्धावस्थानमस्य-शां.॥ २ बलादाकृष्यमाण-शां. विना। संपू० मध्येऽत्र पत्र खण्डितम् इति तत्रत्यः पाठो न ज्ञायते॥
॥९७९॥
Jain Education
For Private & Personal Use Only
1 ww.jainelibrary.org