________________
॥९७७॥
यामै रेचकादिभिर्जयेद्योगी। किं विशिष्टः ? स्थान-वर्ण-क्रिया-ऽर्थ-बीजवित , प्राणादीनां स्थानं वर्ण क्रियामर्थं बीजं च वेत्ति यः स तथा॥१३॥
तत्र प्राणस्य स्थानादीन्याह--
प्राणो नासाग्रहन्नाभिपादाङ्गुष्ठान्तगो हरित् ।
गमागमप्रयोगेण तज्जयो धारणेन वा ॥ १४॥ प्राणो नाम वायुर्नासाग्रे हृदि नाभौ पादाङ्गष्ठान्ते च गच्छतीति स तथा इति स्थानम् । हरिदिति वर्णः । गमागमप्रयोगेण धारणेन च तज्जय इति क्रिया । अर्थो बीजं च वक्ष्यते ॥ १४ ॥ अथ गमागमप्रयोगं धारणं च व्याचष्टे--
नासादिस्थानयोगेन पूरणारेचनान्मुहुः । गमागमप्रयोगः स्याद्धारणं कुम्भनात् पुनः ॥ १५॥ ।
| 10 .
॥ ९७७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org