SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ वृत्ति पञ्चमः प्रकाश श्लोकः १३ ॥ ९७६॥ प्राणा म प्रकर्षेण नयतीति प्राणः, मूत्र-पुरीष गर्भादीनपनयतीत्यपानः, अशित-पीताहारपरिणतिभेदं रसं तत्र तत्र स्थाने स्वोपक्ष सममनुरूपं नयतीति समानः, रसादीनूचं नयतीत्युदानः, व्यानयति व्यामोतीति व्यानः, डैप्रत्ययान्ता एते । अथवा विभूषितं है प्रसरणेनापसरणेन समन्तादूर्ध्व व्याप्त्या चे अनिति अनेनेति घअन्ताः । प्राणमपानं समानमुदानं व्यानं च वायुं प्राणायोगशास्त्रम् १ तुला-"प्राणो नासाग्रहन्नाभिपादाङ्गष्टान्तगोचरः। प्रकर्षेण आनयति प्राणः " क्वचित्" [सि० ५।१।१७१ ] इति डः। ॥९७६॥ प्रसरणेन अनिति अनेन वा। नासाग्रं हृदयं नाभिः पादाङ्गष्ठान्तश्च गोचरो यस्य स तथा । अपानः पवनो मन्था(न्या)-पृष्ठ-पृष्टान्तपाणिगः ॥ ११०८॥ मूत्र-पुरीष-गर्भादीनपानयति अपानः, अपसरणेन अनिति अनेन वा । मन्थे(न्ये) ग्रीवापश्चाद्भागौ, पृष्ठं तधोभागः, पृष्टान्तो गुदः, पाणी पादपश्चाद्भागौ, तेषु गच्छति यः स तथा। समानः सन्धिहन्नाभिषु अशितपीताहारपरिणतिभेदं रसं तत्र तत्र स्थाने समनुरूपम् आ समन्ततो नयतीति समानः, पुंक्लीबलिङ्गः, समन्तादनिति अनेन वा, सर्वसन्धिषु हृदये नाभाववस्थानमस्येति । उदानो हृच्छिरोऽन्तरे। रसादीनूर्ध्वम् [आ] समन्ततो नयतीत्युदानः, ऊर्ध्वमनिति अनेन वा। हदये शिरसि अनयोरन्तरे कण्ठे तालुनि भ्रमध्ये च स्थानमस्येति । यदवोचाम योगशास्त्रे-"रक्तो हृत्कण्ठतालुभ्रमध्ये मूर्धनि संस्थितः। उदानो वश्यतां नेयो गत्यागतिविशेषतः ।।" [५/१८ ] इति । सर्वत्ववृत्तिको व्यानः सर्वतः सर्वस्यां त्वचि वृत्तिरस्य सर्वत्वग्वृत्तिकः । व्यानयति व्याप्नोति व्यानः, व्याप्त्या अनिति अनेन वा। उपसंहारमाह-इत्यङ्गे पञ्च वायवः ॥११०९।। इति समाप्तौ अङ्गे शरीरे प्राणादयः पञ्च वायवः स्युः । समाप्तोऽयं वायुकायः ।" इति स्वोपशवृत्तिसहिते अभिधानचिन्तामणौ। २ समनुरूपं-हे। दृश्यतामुपरितनं टिप्पणम् । संपू० मध्येऽत्र पत्रं खण्डितं वर्तते॥ ३ “अनोर्जनेडः। सप्तम्याः । अजातेः पञ्चम्याः । क्वचित्।"-सि० ५।१।१६८-१७१ ॥ ४ समन्तात् प्रसरणादूर्ध्व-मु. ॥ ५ वाऽनिति-शां. ।। Jain Education M onal For Private & Personal Use Only स्वरूपम् www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy