________________
॥९७५॥
रेचकादीनां फलमाह
रेचनादुदरव्याधेः कफस्य च परिक्षयः । पुष्टिः पूरकयोगेन व्याधिघातश्च जायते ॥१०॥ विकसत्याशु हृत्पद्मं ग्रन्थिरन्तर्विभिद्यते । बलस्थैर्यविवृद्धिश्च कुम्भनाद्भवति स्फुटम् ॥११॥ प्रत्याहाराद् बलं कान्तिर्दोषशान्तिश्च शान्ततः।
उत्तराधरसेवातः स्थिरता कुम्भकस्य तु ॥१२॥ श्लोकत्रयं स्पष्टम् ॥ १० ॥ ११ ॥ १२ ॥ न केवलं प्राणायामः प्राणस्यैव जयहेतुः, किन्तु पश्चानामपि वायूनां जयहेतुरित्याह
प्राणमपान-समानावुदानं व्यानमेव च ।
प्राणायामैर्जयेत् स्थान-वर्ण-क्रिया-ऽर्थ-बीजवित् ॥ १३ ॥ १०विवृद्धिस्तु-शां.॥
BHMSIROHSHOHIBIHSHHHHHHHHHHHHHHHHHHOTE
Jain Education
For Private & Personal Use Only
ww.jainelibrary.org