SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ तथा-- स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् पञ्चमः प्रकाशः श्लोकौ ८९ ॥९७४॥ ॥९७४॥ प्राणायामस्वरूपम् स्थानात् स्थानान्तरोत्कर्षः प्रत्याहारः प्रकीर्त्यते । तालुनासा-ऽऽननद्वारैर्निरोधः शान्त उच्यते ॥८॥ स्थानात नाभ्यादेः स्थानान्तरे हृदयादौ वायोरुत्कर्षण स प्रत्याहारः। तालु च नासा चाननं च तालुनासाननम् , तत्र द्वाराणि, तैर्यो वायोनिरोधः स शान्तः ॥ ८ ॥ तथा आपीयोर्ध्वं यदुत्कृष्य हृदयादिषु धारणम् । उत्तरः स समाख्यातो विपरीतस्ततोऽधरः ॥ ९॥ आपीय पीत्या बाह्यवायुमूर्ध्वमुत्कृष्योनीय हृदयादिषु यद्वायोर्धारणं स उत्तरः, ततो विपरीतोऽधरः ऊर्ध्वदेशादधोनयनरूपः। ननु रेचकादिषु कथं प्राणायामः ? गतिविच्छेदरूपो हि स उच्यते ? उच्यते- यत्र रेचके कोष्ठयो वायुविरेच्य बहिर्धार्यते तत्रास्ति श्वास-प्रश्वासयोर्गतिच्छेदः, यत्रापि पूरके बाह्यो वायुराचम्यान्तर्धार्यते तत्राप्यस्ति श्वासप्रश्वासयोगतिच्छेदः, एवं कुम्भकादिष्वपि ॥ ९ ॥ प्रकीर्तितः-मु.॥ Jain Education a l For Private & Personal use only FAlww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy