SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ॥९७३॥ आचार्यान्तरमतेन भेदान्तराण्याह-- प्रत्याहारस्तथा शान्त उत्तरश्चाधरस्तथा। एभिर्भेदैश्चतुर्भिस्तु सप्तधा कीर्त्यते परैः ॥५॥ प्रत्याहार-शान्तोत्तरा-ऽधरलक्षणेश्चतुर्भिर्भेदैः पूर्वभेदसहितैः प्राणायामः सप्तधा ।। ५ ॥ क्रमेणैषां लक्षणमाह यत् कोष्ठादतियत्नेन नासा-ब्रह्मपुरा-ऽऽननैः । बहिः प्रक्षेपणं वायोः स रेचक इति स्मृतः ॥६॥ कोष्ठादुदरात् अतियत्नेन नासया ब्रह्मरन्ध्रणाऽऽननेन च यद् बहिः वायोः प्रक्षेपणं स रेचकः प्राणायामः ॥६॥ तथा-- समाकृष्य यदाऽपानात् पूरणं स तु पूरकः । नाभिपद्मे स्थिरीकृत्य रोधनं स तु कुम्भकः ॥ ७॥ बाह्येन वायुना आकृष्टेन आअपानं यत् कोष्टस्य पूरणं स पूरकः । यत् पुनर्नाभिप। कुम्भ इव वायोः स्थिरीकरण | स कुम्भकः ।। ७॥ ॥९७३॥ ___JainEducation For Private & Personal Use Only fww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy