________________
॥९७१॥
प्राणस्य मुखनासान्तरसंचारिणो वायोः आ समन्तात यमनं गतिविच्छेदः प्राणायामः ततः आसनजयादनन्तरं कैश्चित् पतञ्जलिप्रभृतिभिः आश्रितोऽङ्गीकृतः ध्यानसिद्धये ध्यानसिद्धयर्थम् । तदाश्रयणे कारणमाह--इतरथा मनसः पवनस्य च जयः कर्तुं न शक्यः ॥ १॥ ननु प्राणायामात् पवनविजयो भवतु, मनोविजयस्तु कथम् ? इत्याह--
मनो यंत्र मरुत्तत्र मरुद्यत्र मनस्ततः ।
अतस्तुल्यक्रियावेतौ संवीतौ क्षीर नीरवत् ॥ २ ॥ ____ मनश्चेतो यत्र देशे तत्र मरुत्, यत्र मरुत् ततो मनः, तत इति आधादित्वेन सप्तम्यन्तात्तसुः। अत एतौ मनः-पवनी तुल्यक्रियौ, तुल्ये क्रिये गमनस्थानलक्षणे ययोस्ती तथा। संवीती क्षीर-नीरवत् यथा क्षीर-नीरे मिलिते समरसतया वर्तते तथा मन:-पवनावपि ॥२॥
१ तुला-" तस्मिन् सति श्वास-प्रश्वासयोगतिविच्छेदः प्राणायामः ॥४९॥” इति पातञ्जले योगसूत्रे। “सत्यासनजये बाह्यस्य वायोराचमनं श्वासः। कोष्टयस्य वायोनिःसारणं प्रश्वासः। तयोर्गतिविच्छेद उभयाभावः प्राणायामः" इति व्यासविरचिते पातञ्जलयोगसूत्रभाष्ये ॥ २ पात०-हेसं० मु.॥ ३ यत्र मरुत् तत्र मनः-संपू.॥ ४ “व्याश्रये तसुः ॥ ७।२।८१॥ | रोगात् प्रतीकारे ॥ १२॥८२ ।। पर्यभेः सर्वोभये ॥ ७॥२।८३॥ आद्यादिम्यः ॥ ७।२।८४॥” इति सिद्धहेमशब्दानुशासने॥
For Private & Personal use only क
Jain Education
Reational
| www.jainelibrary.org