________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
पञ्चमः प्रकाशः श्लोकः१ ॥९७०॥
यदाहु:
"जैसासं न निरंभइ आभिग्गहिओ वि किमुअ चेट्टाए ।
सज्जमरणं निरोहे सुहमोसासं तु जयणाए ॥२॥" [आवश्यकनियुक्तौ गा० १५२४ ] तथापि कायारोग्य-कालज्ञानादौ स उपयोगीत्यस्माभिरपीहोपदर्यते--
प्राणायामस्ततः कैश्चिदाश्रितो ध्यानसिद्धये । शक्यो नेतरथा कर्तुं मनः-पवननिर्जयः ॥१॥
॥९७०॥
REHEHRENCHEHEKSHEKHEKSHEHCHEHEKSHEIKHENGERSHERMERSK
प्राणायाम
१ " उस्सासं न निरंभइ आभिग्गहिओ वि किमुअ चिट्टा उ। सज्जमरणं निरोहे सुहुमुस्सासं तु जयणाए ॥" [आवश्यकनियुक्तौ गा० १५१०] । “ऊर्ध्वं प्रबलः श्वास उच्चासः, तं 'न निरंभइ'त्ति न निरुणद्धि, 'आभिग्गहिओ वि' अभिगृह्यत अभिग्रहः, अभिग्रहेण निर्वत्त आभिग्रहिकः कायोत्सर्गः, तदव्यतिरेकात् तत्कापि आभिग्रहिको भण्यते, असावपि अभिभवकायोत्सर्गकार्यपीत्यर्थः, 'किमुत चेट्ठा उ' ति किं पुनश्चेष्टाकायोत्सर्गकारी, स तु सुतरां न निरुणद्धि इत्यर्थः, किमित्यत आह-'सज्जमरणं निरोहे'त्ति सद्यो मरणं निरोधे उच्छासस्य, ततश्च 'सुहुमुस्सासं तु जयणाए' त्ति सूक्ष्मोच्छासमेव यतनया मुञ्चति, नोल्बणम् , मा भूत् सत्त्वघात इति गाथार्थः।” इति आवश्यकसूत्रनियुक्तेः कायोत्सर्गाध्ययने हरिभद्रसूरिविरचितायां वृत्तौ पृ० ७८३ ॥ २ सुहुमो-मु०॥
For Private & Personal Use Only
Jan Education
www.jainelibrary.org