SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ ॥१४९१ निसर्गमार्दवोपेतो निष्कषायो जितेन्द्रियः । निर्ममो निरहङ्कारः पराजितपरीषहः ॥ २४ ॥ हेयोपादेयतत्त्वज्ञो लोकाचारपराङ्मुखः । विरक्तः कामभोगेषु भवभ्रमणभीलुकः । २५॥ लाभेडलामे सुखे दुःखे शत्रौ मित्रे प्रियेऽप्रिये। मानापमानयोस्तुल्यो मृत्युर्जीवितयोरपि ॥ २६ ॥ निरालस्यो निरुद्वेगो जितनिद्रो जितासनः । सर्वव्रतकृताभ्यासः सन्तुष्टो निप्परिग्रहः ॥ २७ ॥ सम्यक्त्वालङ्कतः शान्तो रम्यारम्यनिरुत्सुकः । निर्भयो भाक्तिकः श्राद्धो वीरो वैरङ्गिकोऽशठः ॥ २८ ॥ निर्निदानो निरपेक्षो बिभक्षुर्देहपञ्जरम् । भव्यः प्रशस्यते ध्याता यियासुः पदमव्ययम् ॥ २९ ।। ध्येयं पदस्थ-पिण्डस्थ-रूपस्था-ऽरूपभेदतः । ध्यानस्यालम्बनं प्राज्ञैश्चतुर्विधमुदाहृतम् ।। ३०॥ यानि पञ्चनमस्कारपदादीनि मनीषिणा । पदस्थं ध्यातुकामेन तानि ध्येयानि तत्त्वतः ॥ ३१ ॥ मरुत्सखशिखो वर्णो भूतान्तः शशिशेखरः । आद्यलध्वादिको ज्ञात्वा ध्यातुः पापं निषूदते ॥ ३२ ॥ स्थितोऽसि आ उ सा मन्त्रश्चतुष्पत्रे कुशेशये । ध्यायमानः प्रयत्नेन कर्मोन्मूलयतेऽखिलम् ॥ ३३ ॥ तन्नाभौ हृदये वक्त्रे ललाटे मस्तके स्थितम् । गुरुप्रसादतो बुद्धा चिन्तनीयं कुशेशयम् ॥ ३४ ॥ अयुयक्त्यिमी [ = अ इ उ य उ ] वर्णाः स्थिताः पद्मे चतुर्दले । विश्राणयन्ति पञ्चापि सम्यग्ज्ञानानि चिन्तिताः ॥ ३५ ॥ स्थितपञ्चनमस्कार-रत्नत्रयपदैर्दलैः । अष्टभिः कलिते पद्मे स्वरकेसरराजिते ॥ ३६ ।। KOCHEHREENSHOTSHISHETHEHREEHEHEREHENSHEdevar ॥ ४ १ तुला-योगशास्त्रे ७८॥ २ तुला-योगशास्त्रे ८।१॥ Jain Education Inte For Private & Personal Use Only jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy