SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ वैक्रमे एकादशे शतके दिगम्बराचार्येण अमितगतिना विरचिते श्रावकाचारे = उपासकाचारे। ११४ श्लोकात्मके पञ्चदशे परिच्छेदे ध्याननिरूपणं वर्तते । तत्र बहवस्तादृशाः श्लोकाः सन्ति यैः सह योगशास्त्रस्य सप्तमप्रकाशत आरभ्य द्वादशप्रकाशपर्यन्तं केषांचिच्छोकानां शब्दतोऽर्थतो वा कथञ्चित् साम्यं वर्तते । तदुपदर्शनाय श्रावकाचारस्य पञ्चदशपरिच्छेदतः ६५ श्लोका अत्रोपन्यस्यन्ते 5 BHOXBHBHISHEHREHEYENCHEHEICHCHCHHHHHHHHereleval " नियम्य करणग्रामं व्रतशीलगुणादृतैः । सर्वो विधीयते भव्यविधिरेष विमुक्तये ॥ १॥ न सा सम्पद्यते जन्तोः सर्वकर्मक्षयं विना। रजोपहारिणी वृष्टिर्बलाहकमिवोर्जिता ॥२॥ समस्तकर्मविश्लेषो ध्यानेनैव विधीयते । न भास्कर विनान्येन हन्यते शावरं तमः ॥ ३ ॥ यत्नः कार्यों बधैर्ध्याने कर्मभ्यो मोक्षकांक्षिभिः । रोगेभ्यो दुःखकारिभ्यो व्याधितैरिव भैषजम् (भैषजे )॥४॥ आद्यत्रिसंहतैः साधैरान्तीहूर्तिकं परम् । वस्तुन्येकत्र चित्तस्य स्थैर्य ध्यानमुदीर्यते ॥ ५॥ तदन्येषां यथाशक्ति मनोरोधविधायिनाम् । एकद्वित्रिचतुःपञ्चषडादिक्षणगोचरम् ॥ ६॥ साधकः साधनं साध्यं फलं चेति चतुष्टयम् । विबोद्धव्यं विधानेन बुधैः सिद्धिं विधित्सुभिः ॥ ७ ॥ संसारी साधको भव्यः साधनं ध्यानमुज्ज्वलम् । निर्वाणं कथ्यते साध्यं फलं सौख्यमनश्वरम् ॥ ८॥ आर्त रौद्रं मतं धर्म्य शुक्ल चेति चतुर्विधम् । ध्यानं ध्यानवतां मान्यैर्भवनिर्वाणकारणम् ॥९॥ संसारकारणं पूर्व परं निर्बतिकारणम् । इत्याद्यं द्वितयं त्याज्यमादेयमपरं बुधैः ॥ १०॥ HENCHCHCHEHRTCHEHEIGHCHCHEHEICHEHSHOBHEHCHEHRMERIHSH Jain Education Inte For Private & Personal use only Jw.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy