SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ ॥१४८७॥ अपात्रप्राणिनो हत्या पात्रं पुष्णन्ति ये पुनः । अनेकमेकघातेन ते प्रीणन्ति भुजङ्गमम् ॥ २२॥" -योगशास्त्रस्वोपज्ञवृत्ती तुला-"हलैंविदार्यमाणायां गर्भिण्यामिव योषिति । नियन्ते प्राणिनो यस्यां सा भूः किं दद(य)ते फलम् ॥ ४६॥ सर्वत्र भ्रमता येन कृतान्तेनेव देहिनः । विपाद्यन्ते न तल्लोहं दत्तं कस्यापि शान्तये ॥४७॥ यदर्थ हिंस्यते पात्रं यत् सदा भयकारणम् । संयमा येन हीयन्ते दुप्कालेनेव मानवाः ।। ४८ ॥ राग-द्वेष-मद-क्रोध-लोभ-मोह-मनोभवाः । जन्यन्ते तापका येन काप्ठेनेव हुताशनाः ।। ४९ ।। तद् येनाष्टापदं यस्य दीयते हितकाम्यया । स तस्याष्टापदं मन्ये दत्ते जीवितशान्तये ॥ ५० ॥ संसजन्त्यङ्गिनो येषु भूरिशस्त्रसकायिकाः । फलं विश्राणने तेषां तिलानां कल्मषं परम् ॥ ५१ ।। प्रारम्भा यत्र जायन्ते चित्राः संसारहेतवः । तत् सद्म ददतो घोरं केवलं कलिलं फलम् ।। ५२ ।। पीडा संपद्यते यस्या बियोगे गोनिकायतः । यया जीवा निहन्यन्ते पुच्छश्रृंगखुरादिमिः ॥ ५३ ॥ यस्यां च दुह्यमानायां तर्णकः पीब्यतेतराम् । तां गां वितरता श्रेयो लभ्यते न मनागपि ॥ ५४ ।। या सर्वतीर्थदेवानां निवासीभूतविग्रहा। दीयते गृह्यते सा गौः कथं दुर्गतिगामिभिः ॥ ५५ ॥ तिलधेनुं घृतधेनुं काञ्चनधेनुं च रुक्मधेनुं च । परिकल्प्य भक्षयन्तश्चाण्डालेभ्यस्तरां पापाः ।। ५६ ॥ या धर्मवनकुठारी पातकवसतिस्तपो-दयाचौरी । वैरा-ऽऽयासा-ऽसूया-विशाद-शोक-श्रम-क्षोणी ॥ ५७ ॥ यस्यां सक्ता जीवा दुःखतमान्नोत्तरन्ति भवजलधेः । कः कन्यायां तस्यां दत्तायां विद्यते धर्मः ॥ ५८ ॥ सर्वारम्भकर ये विवाहं कारयन्ति धर्माय । ते तरुखण्डविवृद्धय क्षिपन्ति वहिं ज्वलज्ज्वालम् ॥ ५९॥ ॥ १४८७॥ Jain Education in For Private & Personal Use Only w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy