________________
।। १४६९ ।।
Jain Education
पुत । भूमिलाभ्यां पादाभ्यां पुतयोर्योगे उत्कटिकासनं प्राहुः । यत्र श्रीवीरस्य केवलमुत्पन्नम् तदेव उत्कटिकासनं स्यात्, गोदोहसमाकारत्वात् पाणिभ्यां भुवस्त्यागे सति । इदं प्रतिमाकल्पिकादीनां विधेयतयोपदिष्टम् ॥ १३२ ॥
गोदो हिकासनं
लम्बित भुजद्वन्द्वमूर्ध्वस्थस्यासितस्य वा ।
स्थानं कायानपेक्षं यत्, कायोत्सर्गः स कीर्तितः ॥ १३३ ॥
प्रलम्ब० । प्रलम्बितं भुजयोर्द्वन्द्वं यत्र तत्तथा, शरीरानपेक्षया यदवस्थानं स कायोत्सर्गे नामासनम् । तच्चोर्ध्वस्थितानां जिनकल्पिकादीनां छद्मस्थतीर्थकृतां च स्यात् । स्थविरकल्पिकानां तूर्ध्वस्थितानामासितानां तथाप्यशक्तौ शपितानामपि स्यात् ।
उपलक्षणत्वात् आम्रकुब्जासनम् आम्राकारतयाऽवस्थिति: यया श्रीवीरः सङ्गमकोपसर्गविंशतिं सेहे १ । एकपार्श्वशायित्वम् तचोर्ध्वमुखस्याऽधोमुखस्य तिर्यग्मुखस्य वा २ । ऋजूकृतशरीरस्य प्रसारितजङ्घोरूद्वयस्य चलनरहितस्यावस्थानं दण्डायतशायित्वम् ३ । मूर्ध्नः पार्योश्च भूस्पर्शे लगड (ण्ड ) शायित्वम् ४ । यत् पाप्रपादाभ्यां द्वयोराकुञ्चितयोरन्योन्यपीडनं समसंस्थानम् ५। यत् भूप्रतिष्ठितशिरसः उत्पादमवस्थानं कपालीकरणमिति प्रसिद्धं तद् दुर्योधनासनम् ६ । तस्मिन्नेव यदा जङ्घे 'पद्मासनीकृते भवतस्तदा दण्डपद्मासनम् ७ । यत्र सव्यमाकुञ्चितं चरणं दक्षिणं जङ्घोर्वन्तरे निक्षिपेत् दक्षिणं चाकुञ्चितं वामजङ्घान्तरे निक्षेपेत् तत् स्वस्तिकासनम् ८ । योगपट्टादियोगात् यदवस्थानं तत् सोपाश्रयमासनम् ९ । तथा क्रौञ्चनिषदनम् १० | हंसनिषदनम् १९ । श्वनिषदनम् १२ । हस्तिनिषदनम् १३ । गरुडनिषदनम् १४ । क्रौञ्चादीनां निषदनानि संस्थानदर्शनात् ज्ञेयानि ॥ १३३ ॥
1 दुर्योधानं ॥
ional
For Private & Personal Use Only
5
10
।। १४६९ ।।
www.jainelibrary.org