SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ।। १४६७ ।। Jain Education aeeeeeeek बामोऽह्रिर्दक्षिणोरूध्यै वामोरूपरि दक्षिणः । क्रियते यत्र तद्वीरोचितं वीरासनं स्मृतम् ।। १२६ ।। वामो० । वीराणां जिनादीनामुचितं न भीरूणाम् । इदं पद्मासनमित्येके । एकस्यैव पादस्य जानावारोपणेऽर्धपद्मासनमिति ॥ १२६ ॥ पृष्ठे वज्राकृतीभूते दोर्भ्यां वीरासने सति । गृह्णीयात् पादयोर्यत्राङ्गुष्ठौ वज्रासनं हि तत् ।। १२७ ।। पृष्ठे० । प्रागुक्ते वीरासने सतिं पृष्ठे वज्राकाराभ्यां पाणिभ्यां यत्र पादयोरङ्गष्ठौ गृह्णीयात् तद्वज्रासनम् । इदं वेतालासनमित्येके । १२७ ।। सिंहासनाधिरूढस्यासनापनयने सति । तथैवावस्थितिर्या तामन्ये वीरासनं विदुः ॥ १२८ ॥ सिंहा० । भून्यस्तपादस्य आसनस्याऽपसारणे सति तथैव यदवस्थानम् । अन्ये सैद्धान्तिकाः कायक्लेशतपः प्रकरणे व्याख्यातवन्तः । पातञ्जलास्वाहु:-- "ऊर्ध्वस्थितस्यैकतरः पादो भून्यस्त एकचाकुचित जानुरूर्ध्वमित्येतद् वीरासनम् " [ पातञ्जल० तत्त्ववैशारदी २४६ ] इति ।। १२८ ।। 1 "ऊर्वोरुपरि निक्षेपे पादयोर्विहिते सति । वीरासनं चिरं कर्तुं शक्यं वीरेर्न कातरैः || ८|४७||" इति अमिगतिविरचिते श्रावकाचारे ॥ For Private & Personal Use Only dearelaalalalalalala 10 ॥ १४६७ ॥ www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy