SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ HHHHHHHETRICKSHETCHEHEKSHETHERCHEHENSKRISHISHEME अपास्ताशेषदोषाणां वस्तुतत्त्वावलोकिनाम् । गुणेषु पक्षपातो यः स प्रमोदः प्रकीर्तितः ॥ ११९ ॥ अपा० । दूरीकृताखिलदोषाणां यथावत्तत्त्वदर्शिनां गुणेषु वन्दन-स्तुति-वैयावृत्यादिना यः पक्षपातः स प्रमोदः ॥ ११९॥ दीनेष्वार्तेषु भीतेषु याचमानेषु जीवितम् । प्रतीकारपरा बुद्धिः कारुण्यमभिधीयते ॥ १२० ॥ दीने। तत्तद्दुःखपरिहारोपायः प्रतीकारः, तत्र शक्ता या बुद्धिस्तत् कारुण्यम् । शेषं स्पष्टम् ॥ १२०॥ क्रूरकर्मसु निःशकं देवता-गुरुनिन्दिषु ।। आत्मशंसिषु योपेक्षा तन्माध्यस्थ्यमुदीरितम् ॥ १२१ ॥ क्रूर० । क्रूरकर्मकारिषु देव-गुरुनिन्दिषु आत्मबहुमानिषु मुद्गशैलेष्विव देशनादिभिर्मदूकर्तुमशक्येषु या उपेक्षा तद् माध्यस्थ्यम् ॥ १२१ ॥ यत् प्रागुक्तम् 'धर्मध्यानमुपस्कर्तुम्' इति तद्विवेचयति आत्मानं भावयन्नाभिर्भावनाभिर्महामतिः । त्रुटितामपि संधत्ते विशुद्धध्यानसंततिम् ॥ १२२ ।। 1 " मरणार्तेषु भूतेषु यत् प्रतीकारवाञ्छया। अनुग्रहमतिः सेयं करुणेति प्रकीर्तिता ॥ १२७६ ॥.......क्रोधाविद्धेषु सत्त्वेषु निस्त्रिंशक्रूरकर्मसु । मधुमांससुरान्यस्त्रीलुब्धेष्वत्यन्तपापिषु ॥ १२७९ ॥ देवागमयतिव्रातनिन्दकेष्वात्मशसिषु । नास्तिकेषु च माध्यस्थ्यं यत् सोपेक्षा प्रकीर्तिता ॥ १२८० ॥” इति शानार्णवे ॥ BHEIGHBHBHEHEHEHEREHCHEHEROICISHEHEHEHEICHCHEHEHETRICICY Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy