________________
॥१४६३॥
मोक्षः कर्मक्षयादेव स चात्मज्ञानतो भवेत ।
ध्यानसाध्यं मतं तच्च तद्धयानं हितमात्मनः ॥ ११३ ॥ मोक्ष० । तदात्मज्ञानं ध्यानसाध्यं तस्मात् आत्मनो जीवस्य ध्यानं हितं श्रेयस्करम् ।। ११३ ।।
न साम्येन विना ध्यान न ध्यानेन विना च तत् ।
निष्कम्पं जायते तस्माद् द्वयमन्योऽन्यकारणम् ॥ ११४ ॥ न सा० । साम्येन विना ध्यानं न स्यादेव । ध्यानेन विना च साम्यं निष्कम्प निश्चलं न भवतीतीतरेतराश्रयहेतुत्वं द्वयोज्ञेयम् ॥ ११४ ॥
मुहूर्त्तान्तमनःस्थैर्य ध्यानं छद्मस्थयोगिनाम् ।
धर्म्य शुक्लं च तद् द्वेधा योगरोधस्त्वयोगिनाम् ।। ११५ ॥ मुह । छद्मस्थानामन्तर्मुहूर्तकालमेकस्मिन्नालम्बने चेतसः स्थितिवा॑नम् । धर्मादनपेतं धर्मेण प्राप्यं वा धर्म्यम् । तथा शुक्लं शुचि निर्मलं सर्वकर्मक्षयहेतुत्वादिति शुक्लम् । यद्वा शुचं क्लमयतीति शुक्लमिति द्विधा । चतर्दशगुणस्थानेऽयोगिकेवलिनां मनो-वाकायनिग्रह एव ध्यानम् ॥ ११५॥
1“मोक्षः कर्मक्षयादेव स सम्यगशानजः (ज्ञानतः PM N BY R विना) स्मृतः। ध्यानसाध्यं (ध्यानबीजं P) मत तद्धि तस्मात् तद्धितमात्मनः ॥ २५९॥” इति ज्ञानार्णवे ।।
।।१४६३॥
Jain Education Inter
For Private & Personal Use Only
X
w.jainelibrary.org