________________
षष्ठं परिशिष्टम्
।। १४६२ ।।
decidedleeeeeeeeeeeeeeeeeeeeee
भावनाभिरविश्रान्तमिति भावितमानसः । निर्ममः सर्वभावेषु समत्वमवलम्बते ॥ ११० ॥
भाव० । इति पूर्वोक्तरीत्या भावनाभिर्भावितचित्तः सर्वपदार्थेषु निर्ममः सन् साम्यमत्रलम्बते ॥ ११० ॥ विषयेभ्यो विरक्तानां साम्यवासितचेतसाम् ।
उपशाम्येत् कषायाग्निबधिदीपः समुन्मिषेत् ॥ १११ ॥
Jain Education Interhal
विष० । कषायाग्निरुपशाम्यत्यनेनाऽनर्थनिषेधः । बोधिदीपो ज्ञानप्रदीप: प्रकटीभवेदित्यनेनार्थप्राप्तिरुक्ता । तदेवं कषायजयमिन्द्रियजयेन, इन्द्रियजयं मनः शुद्धया, तां राग-द्वेषजयेन तं च साम्येन तच्च भावनाहेतुकनिर्ममत्वेन प्रतिपाद्य उत्तरं प्रकरणं प्रक्रमते ॥ १११ ॥
समत्वमवलम्ब्याथ ध्यानं योगी समाश्रयेत् ।
विना समत्वमारब्धे ध्याने स्वात्मा विडम्ब्यते ।। ११२ ।।
सम० । समत्वं दृढं चेतसि व्यवस्थाप्य योगी मुनिर्ध्यानं समाश्रयेत् । ध्यान-साम्ययोरेकत्वेऽपि विशिष्टतरं साम्यं ध्यानमत्रोच्यते ॥ ११२ ॥
I
1 " दीव्यन्नाभिरयं ज्ञानी भावनाभिर्निरन्तरम् । इहैवाप्नोत्यनातङ्कं सुखमत्यक्षमव्ययम् ॥ २४४ ॥ विध्याति कषायाग्निfaraat fated ध्वान्तम् । उन्मिषति बोध (बोधि N) दीपो हृदि पुंसां भावनाभ्यासात् ॥ २४५ ॥ ” इति ज्ञानार्णवे ॥
For Private & Personal Use Only
secccccccccceeded
अवचूर्णि सहिते योगशास्त्र
स्याद्यप्रकाश
चतुष्टये
| चतुर्थः
प्रकाशः
।। १४६२ ।।
10
www.jainelibrary.org