________________
॥ १४६१ ॥
Jain Education I
#000000
अथ द्वादशी भावनामाह
अकामनिर्जरारूपात पुण्याज्जन्तोः प्रजायते ।
स्थावरत्वात् सत्वं वा तिर्यकत्वं वा कथञ्चन ॥ १०७ ॥
अका० । अनिच्छतो या निर्जरा साऽकामनिर्जरा कर्मलाघवम्, तद्रूपात् पुण्यात् जीवस्य, स्थावरत्वमेकेन्द्रियत्वम्, द्वन्द्रियादित्वम् तिर्यक्त्वं पञ्चेन्द्रियत्वम् ॥ १०७ ॥
मानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटवम् ।
आयु प्राप्यते तत्र कथञ्चित्कर्मलाघवात् ॥ १०८ ॥
मा० । सर्वाक्ष० सर्वेन्द्रियपटुत्वम् । शेषं स्पष्टम् ॥ १०८ ॥ प्राप्तेषु पुण्यतः श्रद्धा कथक - श्रवणेष्वपि ।
तत्त्वनिश्चयरूपं तद् बोधिरत्नं सुदुर्लभम् ॥ १०९ ॥
प्राप्तेषु । तत्त्वं देव-गुरु- धर्मरूपम्, तस्य निश्चयो दृढोऽभिनिवेशः, तद्वपं बोधिरत्नम् ॥ १०९ ॥
तिर्यङपि
1 " तस्माद् यदि विनिष्क्रान्तः स्थावरेषु प्रजायते । त्रसत्वमथवाप्नोति प्राणी केनापि कर्मणा ॥ २३३ ॥ भवत्यङ्गी तन्न स्वल्पाशु भक्षयात् ॥ २३३ ॥ नरत्वं यद् गुणोपेतं देशजात्यादिलक्षितम् । प्राणिनः प्राप्नुवन्त्यत्र तन्मन्ये कर्मलाघवात् ||२३४|| आयुः सर्वाक्षसामग्री ||२३५|| यदि स्यात् पुण्ययोगेन न पुनस्तत्त्वनिश्चयः ||२३६||...... तदिदमेकं दुर्लभं बोधिरत्नम् ॥ २४३ ॥ इति ज्ञानार्णवे ॥
,,
For Private & Personal Use Only
10
॥ १४६१ ॥
www.jainelibrary.org