SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् ॥१४६०॥ लोको जगत्त्रयाकीर्णो भुवः सप्तात्र वेष्टिताः । घनाम्भोधिमहावाततनुवातैमहाबलेः ॥ १०४ ॥ लोको । जगतां त्रयेणाधस्तिर्यगूलरूपेणाकीर्णो व्याप्तः। अत्र लोके सप्त भुवः घनाम्भोधि १ धनवात २ तनुवातै ३ रधः पार्श्वतश्च वेष्टिताः महाबलेः पृथ्वीधरणसमर्थः ॥ १०४ ॥ वेत्रासनसमोऽधस्तान्मध्यतो झल्लरीनिभः। अग्रे मुरजसङ्काशो लोकः स्यादेवमाकृतिः ॥ १०५ ॥ वेत्रा० । अधो विस्तीर्णम् उपरि सङ्कचितं वेत्रासनम् । मुरजं मर्दलम् । स्पष्टः ॥ १०५ ॥ निष्पादितो न केनापि न धृतः केनचिच्च सः। स्वयंसिद्धो निराधारो गगने किन्त्ववस्थितः ॥ १०६॥ निष्या० । केनापीश्वरादिना न निप्पादितः, केनापि शेष-कूर्मादिना न धृतः, किन्तु स्वयंसिद्धः निराधारः आकाशे चावस्थितश्च लोकः ॥ १०६ ॥ 1“वेष्टितः पवनैः प्रान्ते महावेगैर्महाबलैः। त्रिभिस्त्रिभुवनाकीणों लोकस्तालतरुस्थितिः ॥ २२५ ॥ निष्पादितःस केनापि नैव नैवोद्धतस्तथा । न भग्नः किन्त्वनाधारो गगने स स्वयं स्थितः ॥ २२६ ।। अधो वेत्रासनाकारो मध्ये स्याज्झलरीनिभः । मृदङ्गसदृशश्चाने स्यादित्थं स त्रयात्मकः ॥२२९ ॥” इति ज्ञानार्णवे ॥ अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये चतुर्थः प्रकाशः ॥१४६०॥ Jain Education Internal For Private & Personal Use Only anlvw.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy