________________
पष्ट
परिशिष्टम्
HEHCHCHEHENEVEVCHEHREPRETRIEVEHENEVERESHEEEEEENET
अवचूर्णि
सहिते के योगशास्त्र
स्याद्यकप्रकाश
चतुष्टये चतुर्थः प्रकाशः
न ज्वलत्यनलस्तिर्यग यदवं वाति नानिलः ।
अचिन्त्यमहिमा तत्र धर्म एव निबन्धनम् ।। ९७ ॥ न ज्व० । अनलोऽग्निः । अनिलो वायुः । निबन्धनं कारणम् । शेषं स्पष्टम् ।। ९७ ॥
निरालम्बा निराधारा विश्वाधारा वसुन्धरा ।
यच्चावतिष्ठते तत्र धर्मादन्यन्न कारणम् ॥ ९८ ॥ निरा० । विश्वस्य चराचरस्य जगत आधारः । अवतिष्ठते, नाधः पतति तत्र धर्मादन्यन्न कारणम् ॥ ९८ ॥
सूर्याचन्द्रमसावेतौ विश्वोपकृतिहेतवे ।
उदयेते जगत्यस्मिन्नूनं धर्मस्य शासनात् ॥ ९९ ॥ सूर्या० । “ वेदसहश्रुताऽवायुदेवतानाम् " [ सि० ३।२।४१ ] इति आत्वम् ॥ ९९ ॥
अबन्धूनामसौ बन्धुरसखीनामसौ सखा ।
अनाथानामसौ नाथो धर्मो विश्वकवत्सलः ।। १०० ।। अबं० । असखीनाम् अमित्राणाम् । स्पष्टः ॥ १० ॥ __ 1 "पर्जन्यपवनार्केन्दुधराम्बुधिपुरन्दराः। अमी विश्वोपकारेषु वर्तन्ते धर्मरक्षिताः ॥२०७॥" इति शानार्णवे ॥
For Private & Personal Use Only
॥१४५८।।
Jain Education into!
w.jainelibrary.org