________________
परिशिष्टम्
दीप्यमाने तपोयट्टी बाह्ये चाभ्यन्तरेऽपि च ।
यमी जरति कर्माणि दुर्जराण्यपि तत्क्षणात् ।। ९१ ॥ दीप्य० । संयमवान् जरति भस्मसात् करोति अन्तर्भूतण्यर्थत्वात् सकर्मकत्वम् । शेषं स्पष्टम् ॥ ९१ ॥ अथ दशमी भावनामाह
स्वाख्यातः खलु धर्मोऽयं भगवद्भिर्जिनोत्तमः ।
यं समालम्बमानो हि न मज्जेद्भवसागरे ॥ ९२ ॥ स्वाख्या। सुप्ट परतीर्थिकापेक्षया प्राधान्येन आ विधिप्रतिषेधमर्यादया कथितः स्वाख्यातः, खलु निश्चये, जन्तुरिति गम्यते ॥ ९२ ॥ दशधा धर्ममाह
संयमः सूनृतं शौचं ब्रह्माऽकिश्चनता तपः।
क्षान्तिार्दवमृजुता मुक्तिश्च दशधा स तु ॥ ९३ ॥ संयमः । संयमः प्राणिदया १ । सूनृतं मुषावादत्यागः २ । शौचं संयम प्रति निरुपलेपता, सा चादत्तादानपरिहाररूपा यतो लोभातः परधनं जिघृक्षन् संयम मलिनयति ३ । नवब्रह्मचर्यगुप्तिसनाथं ब्रह्मचर्यम् ४ । अस्य किश्चन द्रव्यं नास्तीत्यकिश्चनः,
1 “निवेदपदवी प्राप्य तपस्यति यथा यथा । यमी क्षपति (क्षिपति FX ) कर्माणि दुर्जराणि तथा तथा ।। १९८ ॥" इति ज्ञानार्णवे॥
HevereHHHereveHRISHBHECHEHCHCHECHHereverse
अवचूर्णि सहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये चतुर्थः प्रकाशः
॥१४५६ ॥
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org