________________
परिशिष्टम्
अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाश
॥१४५४॥
चतुष्टये
DEHEREHENEARCHCHEHENRELEHCHEHRISHCHCHCHECERE
ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनाम् ।
कर्मणां फलवत् पाको यदुपायात्स्वतोऽपि हि ।। ८७ ॥ ज्ञेया। सकामां यतीनां ज्ञेया । अन्येषामेकेन्द्रियादीनां चतुर्गतिकजन्तूनामकामा, यद्यस्मात् उपायात निवातप्रदेशस्थापनापलालाच्छादनादिरूपात् फलानामिव कर्मणामसद्वेद्यादीनां पाकः स्यात् , स्वतोऽपि वा वृक्षस्थानामिव फलानाम् , तद्वत् कर्मणामपि ॥८७॥
सदोषमपि दीप्तेन सुवर्ण वह्निना यथा।
तपोऽग्निना तप्यमानस्तथा जीवो विशुध्यति ।। ८८ ॥ सदोष । किट्टिकादिदोषयुक्तमपि सुर्वणं यथा अग्निना शुध्यति तथाऽसद्वेद्यादिकर्मयुक्तोऽपि जीवो विशेषेण शुध्यति तपोऽग्निना ॥ ८८ ॥
अनशनमौनोदर्य वृत्तेः संक्षेपणं तथा।
रसत्यागस्तनुक्लेशो लीनतेति बहिस्तपः॥ ८९ ॥ अन० । अनशनमाहाररूपम् , तच्च इत्वरं नमस्कारसहितादि श्री वीरतीर्थे षण्मासान्, श्री आदिजिनतीर्थे वर्षान्तम् , मध्यमजिनानामष्टमासान् यावत् । यावज्जीवं तु पादपोपगमनेंगिनी-भक्तप्रत्याख्यानभेदात् त्रेधा । ऊनमुदरं यस्य स तथा, तस्य भावः औनोदर्यम् । तच्च चतुर्धा । तत्र द्वात्रिंशत्कवलाहारस्य नरस्याष्ट कवला अल्पाहारौनोदर्यम् १ । अर्द्धस्य समीपमुपार्द्ध द्वादश कवला उपाद्धौनोदर्यम् । षोडश कवला अद्धौनोदर्यम् २। पूर्णाहारादेकादिकवलैरूनं चतुर्विशतिकवलान् यावत् प्रमाणप्राप्तात् किश्चिदौनोदर्यम् ४ । चतुर्विधेऽप्यास्मिन् एकैककवलहानेन बहूनि स्थानानि स्युः । सर्वेऽप्यौनोदर्यभेदाः । एवमष्टाविंशतिकवलाहारायाः
For Private & Personal use only
BYCHRIDERERHCHEREHENRICRORSHEECHHEHEYE
चतुर्थः प्रकाशः ॥१४५४॥
Jain Education Inter
nal
Iww.jainelibrary.org