SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ॥ १४५३॥ BHABHEEMECHEHREMEHSHEHARRHEHEREHEREHIMIREMEMBER सद्दर्शनेन मिथ्यात्वं शुभस्थैर्येण चेतसः। विजयेतात-रौद्रे च संवरार्थ कृतोद्यमः ।। ८५ ॥ सद्दर्शन० । सम्यग्दर्शनेन मिथ्यात्वम्, शुभं धर्म्य-शुक्लरूपं यत् चेतसः स्थैर्य तेनार्त-रौद्रध्याने विजयेत संवरनिमित्तं कृतोद्यमो यतिः ।। ८५ ॥ अथ नवमीं भावनामाह संसारबीजभूतानां कर्मणां जरणादिह । निर्जरा सा स्मृता द्वेधा सकामा कामवर्जिता ॥ ८६ ॥ संसार० । संसारकारणभूतानामात्मप्रदेशेभ्योऽनुभूतरसकर्मपुद्गलशातनान्निर्जरा इह प्रवचने द्विधा सह कामेन 'निर्जरा मे भूयात्' इत्याद्यभिप्रायेण युक्ता सकामा, पूर्वोक्तलक्षणेन कामेनवर्जिता अकामा ॥ ८६ ॥ । “यया कर्माणि शीर्यन्ते बीजभूतानि जन्मनः। प्रणीता यमिभिः (यतिभिः M N) सेयं निर्जरा जीर्णबन्धनैः ॥ १९१॥ ११! सकामां-ऽकाममेदेन विकल्पद्वयमश्नुते । निर्जरा कर्मजानेकनिगडच्छेदकारणम् ॥ १९२॥ पाकः स्वयमुपायाच्च स्यात् फलानां तरोर्यथा। तथात्र कर्मणां शेयः स्वयं सोपायलक्षणः ॥ १९३ ॥ विशुध्यति हुताशेन सदोषमपि काञ्चनम् । यद्वत् तथैव जीवोऽयं तप्यमानस्तपोऽग्निना ॥ १९४ ॥” इति ज्ञानार्णवे ॥ “पूर्वोपार्जितकमैकदेशसंक्षयलक्षणा। सविपाकाऽविपाका च द्विविधा निर्जराऽकथि ।। ३६३ ॥ यथा फलानि पच्यन्ते कालेनोपक्रमेण च । कर्माण्यपि तथा जन्तोरुपात्तानि विसंशयम् B॥ ३॥६४॥" इति अमितगतिविरचिते श्रावकाचारे॥ TaareewaaaEERENCHEHREREREHEHEHETEERENCHEDEEM 10 Sel॥१४५३॥ Jain Education in s a l For Private & Personal Use Only ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy