________________
a.
परिशिष्टम् -
॥ १४५२ ।।
Jain Education I
येन येन ह्युपायेन रुध्यते यो य आश्रवः ।
तस्य तस्य निरोधाय स स योज्यो मनीषिभिः ॥ ८१ ॥ येन० | स्पष्टः ॥ ८१ ॥
क्षमया मृदुभावेन ऋजुत्वेनाप्यनीहया ।
क्रोधं मानं तथा मायां लोभं रुन्ध्याद्यथाक्रमम् ॥ ८२ ॥
क्षमया० | क्षमया क्रोधं रुन्ध्यात् । मृदुभावेन मार्दवेन मानम्, ऋजुत्वेन मायाम्, अनीहया निस्पृहतया लोभं च रुन्ध्यात् ॥ ८२ ॥
असंयमकृतोत्सेकान् विषयान् विषसन्निभान् ।
निराकुर्यादखण्डेन संयमेन महामतिः ।। ८३ ।।
असं० । असंयमेन इन्द्रियोन्मादेन कृत उत्सेकः स्वकार्यजननं प्रति सामर्थ्यं येषां तान् विषयान् अखण्डेन संयमेन निराकुर्यात् ॥ ८३ ॥
तिसृभिर्गुप्तिभिर्योगान् प्रमादं चाप्रमादतः । सावद्ययोगहानेनाविरतिं चापि साधयेत् ॥ ८४ ॥
तिसृ० | योगान् मनोवाक्कायव्यापारान् । मद्यादिपञ्चविधः प्रमादोऽज्ञानाचाष्टविधो वा अप्रमत्ततया । सावध व्यापारत्यागेन चाविरतिं साधयेत् ॥ ८४ ॥
For Private & Personal Use Only
dialelaide
अवचूर्णि
सहिते
योगशास्त्र
स्थाद्य
प्रकाश
चतुष्टये
चतुर्थः
प्रकाशः
।। १४५२ ।।
10
www.jainelibrary.org