________________
अथाष्टमी भावनां संवररूपामाह
FREMEHEHREHENSITIEHIROHRISHISHERSHISHORSHISHISHMISHRSHISHEKCINE
सर्वेषामाश्रयाणां तु निरोधः संवरः स्मृतः ।
स पुनर्भिद्यते द्वेधा द्रव्यभावविभेदतः ॥ ७९ ॥ सर्वेषा० । सर्वेषामाश्रवाणां निरोधः संवरः कथितः । स संवरो द्विधा भवति द्रव्य-भावभेदात् ॥ ७९ ॥
यः कर्मपुद्गलादानच्छेदः स द्रव्यसंवरः ।
भवहेतुक्रियात्यागः स पुनर्भावसंवरः ॥ ८० ॥ यः कर्मः । कर्मपुद्गलानामाश्रवद्वारेणादानं प्रवेशनम् , तस्य च्छेदः स द्रव्याणां संवरो द्रव्यसंवरः । यः पुनर्भवहेतूनां क्रियाणामात्मव्यापाररूपाणां त्यागः स भावसंवरः ।। ८० ॥
1"सर्वाम्रयनिरोधो यः संवरः स प्रकीर्तितः। द्रव्य-भावविभेदेन सद्विधा भिद्यते पुनः ॥ १७९ ॥ यः कर्मपुद्गलादानविच्छेदः स्यात् तपस्विनः । स द्रव्यसंवरः प्रोक्तो ध्याननिघृतकल्मषैः ॥ १८० ॥ या संसारनिमित्तस्य क्रियाया विरतिः स्फुटम् । स भावसंवरस्तर्विज्ञेयः परमागमात् ॥ १८१॥ जायते यस्य यः साध्यः स तेनैव निरुध्यते। अप्रमत्तैः समुद्युक्तैः संवरार्थ कृतोद्यमैः ॥१८३।। क्षमा क्रोधस्य मानस्य मार्दवं त्वार्जवं पुनः । मायायाः संगसंन्यासो लोभस्यैते द्विषः क्रमात्॥३८४॥" इति ज्ञानार्णवे। “आस्रवस्य निरोधो यः संवरः स निगद्यते । भाव-द्रव्यविकल्पेन द्विविधः कृतसंवरैः ।। ३२५९ ॥” इति अमितगतिविरचिते श्रावकाचारे ॥
Jain Education inte
For Private & Personal use only
F
w.jainelibrary.org