SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् अवचूर्णिसहिते योगशास्त्रयस्याद्यप्रकाशचतुष्टये ॥१४५०॥ चतुर्थः HOMEREMEHEKSHICHCHEHOREHEREHRISHCHEMEHEREHBHIBHIBHIBHEHREE शुभार्जनाय निर्मिथ्यं श्रुतज्ञानाश्रितं वचः विपरीतं पुनर्जेयमशुभार्जनहेतवे ।। ७६ ॥ शुभा० । श्रुतज्ञानमागमाविरोधि वचनं निर्मिथ्यं सत्यं शुभार्जनाय स्यात् । शेषं स्पष्टम् ॥ ७६ ॥ शरीरेण सुगुप्तेन शरीरी चिनुते शुभम् । सततारम्भिणा जन्तुघातकेनाशुभं पुनः ॥ ७७ ।। शरीरे । सुगुप्तेन असचेष्टारहितेन कायोत्सर्गादौ निश्चेष्टेन वा शरीरेण शुम्भ कर्म करोति । सततं महारम्भेण प्राणिव्यापादकेन पुनरशुभम् ॥ ७७ ॥ कषाया विषया योगाः प्रमादाविरती तथा । मिथ्यात्वमारौद्रे चेत्यशुभं प्रति हेतवः ॥ ७८ ॥ कषा० । कषायाः क्रोधाद्याः, नोकषाया हासाद्याः, विषयाः शब्दाद्याः, योगा अशुभमनोवाक्कायरूपाः व्यापाराः, प्रमादोऽज्ञान १, संशय २, विपर्यय ३, राग ४, द्वेष ५, स्मृतिभ्रंश ६, धर्मानादर ७, योगदुःप्रणिधानै ८ रष्टविधः । अविरतिः नियमाभावः । मिथ्यात्वमातरौद्रध्याने च एते सर्वेऽप्यशुभकर्मकारणानि ज्ञेयानि ॥ ७८ ॥ 1 “कषायाः क्रोधाद्याः स्मरसहचराः पञ्च विषयाः, प्रमादा मिथ्यात्वं वचनमनसी काय इति च । दुरन्ते दुर्थ्याने | विरतिविरहश्चेति नियतं, सवन्त्येते पुंसां दुरितपटलं जन्मभयदम् ॥ १७८ ॥” इति ज्ञानार्णवे ।। BHEECHEIGRICHEHERRRRRRCHEHORECHARISHCHE प्रकाशः ॥१४५०॥ JainEducation Internal For Private & Personal use only www.jainelibrary.org.
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy