SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ॥१४४९॥ BIGIGHEHIMIREMIERIEHRIMEHSHIKSHRIHHHHHHHOTE अथ सप्तमी भावनामाह मनोवाकायकर्माणि योगाः कर्म शुभाशुभम् । यदाश्रवन्ति जन्तूनामाश्रवास्तेन कीर्तिताः ॥ ७४ ।। मनो० । मनोवाक्कायव्यापारा योगा उच्यन्ते । ते योगाः शुभाशुभं पुण्यापापकर्म यत् आश्रवन्ति प्रस्रवन्ति तेन कारणेनाम्रयते कर्म एभिरित्याश्रवाः, एतेषां करणत्वेऽपि कर्तृत्वमुक्तं स्वातन्त्र्यविवक्षणात् , यथाऽसिश्छिनत्तीति ॥ ७४ ॥ मैत्र्यादिवासितं चेतः कर्म सूते शुभात्मकम् । कषायविषयाक्रान्तं वितनोत्यशुभं पुनः ।। ७५ ॥ मैत्र्या० । मैत्रीभावः, आदेः प्रमोद-दया-माध्यस्थ्यानि, तेर्वासितं भावितं पुण्यरूपं कर्म जनयति । कषायैः शब्दादिविषयः स्ववशीकृतम् पुनरशुभं पापकर्मरूपम् ॥ ७५ ॥ ___ 1 “ मनस्तनुवचःकर्म योग इत्यभिधीयते । स एवाश्रव इत्युक्तस्तत्त्वज्ञान विशारदैः ॥ १३० ॥ इति ज्ञानार्णवे॥" । “यद् वाकायमनःकर्मयोगोऽसावास्रवः स्मृतः। कर्मास्रवत्यनेनेति शब्दशास्त्रविशारदैः ॥ ३॥३८॥” इति अमितगतिविरचिते श्रावकाचारे। 2 " यम-प्रशम-निर्वेद तत्त्वचिन्तावलम्बितम् । मध्यादिभावनारूढं मनः सूते शुभास्रवम् ॥ १७२ ॥ कषायदहनोद्दीप्तं विषयाकुलीकृतम्। संचिनोति मनः कर्म जन्मसम्बन्धसूचकम् ॥ १७३ ॥ विश्वव्यापारनिर्मुक्तं श्रुतज्ञानावलम्बितम् । शुभ्रामवाय विक्षेयं वचः सत्यप्रतिष्ठितम् ।। १७४ ॥ अपवादास्पदीभूतमसन्मार्गोपदेशकम् । पापासवाय विज्ञेयमसत्यं परुष वचः ।। १७५ ॥ सुगुप्तेन स्वकायेन कायोत्सर्गेण वानिशम् । संचिनोति शुभं कर्म काययोगेन संयमी ।। १७६ ॥ सततारम्भयोगैश्च व्यापारर्जन्तुघातकः । शरीरं पापकर्माणि संयोजयति देहिनाम् ॥ १७७॥ इति ज्ञानार्णवे ॥ ॥ ४४९॥ Jain Education Intem For Private & Personal Use Only jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy