SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ ॥१४४७॥ अथ चतुर्थी भावनामाह एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः प्रचितानि भवान्तरे ॥ ६८ ॥ एक० । जन्मान्तरे सञ्चितानि कर्माणि एक एव अनुभवति वेदयते । शेष स्पष्टम् ।। ६८ ॥ अन्यैस्तेनार्जितं वित्तं भूयः सम्भूय भुज्यते । स त्वेको नरककोडे क्लिश्यते निजकर्जभिः ।। ६९ ॥ अन्यैः । तेनैकेनार्जितं वित्तमन्यैर्बन्धवादिभिमिलित्वा भूयः पुनः पुनर्भुज्यते, स तु वित्तस्यार्जयिता एक एव नरकमध्ये क्लिश्यते बाध्यते स्वकर्मभिः ॥ ६९ ॥ अथ पञ्चमी.भावनामाह यत्रान्यत्वं शरीरस्य वैसदृश्याच्छरीरिणः । धनबन्धुसहायानां तत्रान्यत्वं न दुर्वचम् ॥ ७० ॥ यत्रा० । यत्रेति प्रक्रमार्थेऽव्ययम् । शरीरस्य शरीरिणो जीवस्य च यत्रान्यत्वं भेदः परस्परं मूर्तीमूतवादिना विसदृशतया पार्थक्यमस्ति तत्रात्मनः सकाशाद् भिन्नानां धन-बन्ध्वादीनामन्यत्वं पृथक्त्वं न दुर्भणम् ॥ ७० ॥ यो देह-धन-बन्धुभ्यो भिन्नमात्मानमीक्षते । क शोकशङ्कना तस्य हन्ताऽऽतङ्कः प्रतन्यते ॥ ७१ ॥ MEREKKERRIERHIDHEHEKSHEHEREHENSIONSHICICISHEHER ॥१४४७॥ Jain Education in For Private & Personal Use Only pow.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy