________________
अथ तृतीयभावनामाह
प
परिशिष्टम्
अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये चतुर्थः प्रकाशः ॥१४४६॥
श्रोत्रियः श्वपचः स्वामी पत्तिब्रह्मा कृमिश्च सः।
संसारनाटये नटवत संसारी हन्त! चेष्टते ।। ६५ ।। श्रोत्रि० । श्रोत्रियो वेदपारगः श्वपचः, सोऽपि श्रोत्रिय इत्यादि। स्वामी पदातिः, पदातिश्च स्वामी। ब्रह्मा कृमिश्च, कृमिब्रह्मा। हन्तेत्यामन्त्रणे, चेष्टते नटवत् विविधां चेष्टां करोति ॥ ६५ ।।
न याति कतमां योनि कतमां या न मुञ्चति ।
संसारी कर्मसम्बन्धादवक्रयकुटीमिव ॥ ६६ ॥ न या० । कां योनिं न याति ? अपि तु सर्वामपि । कतमां वा योनि न मुञ्चति ? सर्वामपि मुञ्चतीत्यर्थः । भाटककुटीमिव ॥६६॥
समग्रलोकाकाशेऽपि नानारूपैः स्वकर्मतः ।
वालाग्रमपि तन्नास्ति यन्न स्पृष्टं शरीरिभिः ॥ ६७ ॥ सम० । चतुर्दशरज्ज्वात्मकेऽपि लोके सूक्ष्म-बादरादिभिर्नानारूपैर्वालाग्रमपि वालाग्र प्रमाणक्षेत्रमुत्पद्यमानैर्विपद्यमानैश्व जीवैर्यन्न स्पष्ट तन्नास्ति ॥ ६ ॥ 1 “श्रोत्रियः सारमेयः स्यात् कृमिर्वा श्वपचोऽपि वा ॥ १२२ ।। रूपाण्येकानि गृहणाति त्यजत्यन्यानि सन्ततम् ।
यथा रङ्गेऽत्र शैलूषस्तथायं यन्त्रवाहकः ।। १२३ ॥” इति शानार्णवे। nal
॥१४४६॥
Jain Education
a
For Private & Personal Use Only
Neww.jainelibrary.org