SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ पितुर्मातुः स्वसुतुस्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः कर्मभिर्यमसमनि ॥ ६२ ॥ पितु । स्वसुर्भगिन्याः, [तनयानां ] पुत्राणाम् , यमगृहे, एतच्च लोकप्रसिध्या अपेक्ष्यम्, न तु यमगृहे कश्चिन्नीयते, अपि तु कर्मभिस्तत्र तत्र नरकादौ नीयते इति तत्त्वम् ॥ ६२॥ शोचन्ति सजनानन्तं नीयमानान् स्वकर्मभिः । नेष्यमाणं तु शोचन्ति नात्मानं मृढबुद्धयः ॥ ६३ ॥ शोचन्तिः । मूढबुद्ध्यः स्वजनान् अन्तं मृत्यु नीयमानान् शोचन्ति, परमात्मानं नेप्यमाणं तु न शोचन्ति ॥ ६३ ॥ संसारे दुःखदावामिज्वलज्ज्वालाकरालिते । बने मृगार्भकस्येव शरणं नास्ति देहिनाम् ॥ ६४ ॥ संसा० । दुःखमेव दावाग्निस्तस्य ज्वलन्त्यो ज्वालास्ताभिः रौद्रे, वनपक्षे दुःखो दुःखहेतुर्यों दावाग्निरित्यादि । मृगशिशोरिव, तदृग्रहणमतिमोग्ध्यख्यापनार्थम् ॥ ६४ ॥ अवणिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये चतुर्थः प्रकाशः BHOHHSHETHEIGHHEHRESHESHRIEHCHCHEHREERHONEHEHCHE ॥१४४५॥ 1 इत आरभ्य ९१ तम श्लोकावचूणि यावत् एकं पत्रम् A मध्ये नास्ति ॥ 2 “शोचन्ति स्वजनं मूर्खाः स्वकर्मफलभोगिनम् । नात्मानं बुद्धिविध्वंसाद् यमदंष्टान्तरस्थितम् ॥१०॥” इति शानार्णवे॥ Jain Education Int For Private & Personal use only a w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy