________________
षष्ठं परिशिष्टम्
॥ ९४४४ ॥
Jain Education Inter
शरीरं देहिनां सर्वपुरुषार्थ निबन्धनम् । प्रचण्डपवनोद्धृतघनाघन विनश्वरम् ॥ ५८ ॥
शरी० । यत् शरीरं सर्वपुरुषार्थानां निबन्धनं तदपि विनश्वरमस्थिरम् ॥ ५८ ॥ कल्लोलचपला लक्ष्मीः सङ्गमाः स्वप्नसन्निभाः । वात्याव्यतिकरोत्क्षिप्ततूलतुल्यं च यौवनम् ।। ५९ ।।
कल्लो० । सङ्गमाः पित्रादिसंयोगाः । तूलं रुतादि । शेषं स्पष्टम् ॥ ५९ ॥ इत्यनित्यं जगद्वृत्तं स्थिरचित्तः प्रतिक्षणम् ।
तृष्णा कृष्णाहिमन्त्राय निर्ममत्वाय चिन्तयेत् ॥ ६० ॥
इत्य० । इति पूर्वोक्तप्रकारेण जगत्स्वरूपमनित्यं प्रतिक्षणमत्रधारयेत्, तृष्णा रागः, सैव कृष्णाहिः, तस्य मन्त्राय, अहिशब्दः स्त्रीलिङ्गोऽप्यऽस्तीति नोपमानोपमेययोर्भिन्नलिङ्गता ॥ ६० ॥
अथ द्वितीयभावनामाह
इन्द्रोपेन्द्रादयोऽप्येते यन्मृत्योर्यान्ति गोचरम् ।
अहो ! तदन्तकात कः शरण्यः शरीरिणाम् ।। ६१ ।।
इन्द्रो । शक्र - वासुदेवादयोऽपि यस्मात् मृत्योर्यशं यान्ति । अहो विस्मये । तस्मात् मृत्युभये शरीरिणां, कः शरणे साधुः शरण्यः १ न कोऽपीत्यर्थः ॥ ६१ ॥
For Private & Personal Use Only
अवचूर्णि
सहिते
योगशास्त्र
स्याद्य
प्रकाश
चतुष्टये
चतुर्थः
प्रकाशः
।। १४४४ ।।
10
Www.jainelibrary.org