________________
MEHEKHeareraraamREEKERBERGEHEREIGRIHMECREE
स्निह्यन्ति जन्तवो नित्यं वैरिणोऽपि परस्परम् ।
अपि स्वार्थकृते साम्यभाजः साधोः प्रभावतः ॥ ५४ ॥ स्निा। स्वार्थनिमित्तमपि साम्यभाजः साधोः प्रभावात् नित्यवैरिणोऽप्यहिन कुलादयः परस्परं मैत्री कुर्वन्ति । ईदृशः साम्यमहिमा यदेतत् स्वनिमित्तकृतमपि परेषु नित्यवैरिषु पर्यवस्यतीत्यर्थः ॥ ५४ ॥
साम्यं स्यानिर्ममत्वेन तत्कृते भावनाः श्रयेत् । अनित्यतामशरणं भवमेकत्वमन्यताम् ॥ ५५ ॥ अशौचमाश्रवविधि संवरं कर्मनिर्जराम् ।
धर्मस्वाख्याततां लोकं द्वादशी बोधिभावनाम् ॥ ५६ ॥ [ युग्मम् ] साम्यं स्याद् निर्ममत्वेन उपायेन। राग-द्वेषयोयोरपि प्रतिपक्षभूतं साम्यम् , निर्ममत्वं तु रागस्यैव प्रतिपक्षभूतमित्यनयोर्भेदः। निर्ममत्वनिमित्तं योगी भावनाः श्रयेदिति ।। ५५ ॥ सुगममिति ।। ५६ ।। अथानित्यतामाह
यंत्यातस्तन्न मध्याह्ने यन्मध्याह्ने न तनिशि ।
निरीक्ष्यते भवेऽस्मिन् ही पदार्थानामनित्यता ॥ ५७ ।। यत्मा० । ही खेदे। स्पष्टः ।। ५७ ॥ 1 “शाम्यन्ति जन्तवः क्रूरा बद्धवैराः परस्परम् । अपि स्वार्थप्रवृत्तस्य मुनेः साम्यप्रभावतः ॥११६६॥” इति शानार्णवे ॥ 2 " ये दृष्टिपथमायाताः पदार्थाः पुण्यमूर्तयः । पूर्वाहणे न च मध्याह्ने ते प्रयान्तीह देहिनाम् ॥ ६०॥” इति झानार्णवे॥
Jain Education in
For Private & Personal Use Only
क
w.jainelibrary.org