SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ पष्ट अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाश चतुष्टये पणिहन्ति क्षणार्धेन साम्यमालम्ब्य कर्म तत् । यन्न हन्यानरस्तीव्रतपसा जन्मकोटिभिः ।। ५१ ॥ परिशिष्टम् प्रणि । अन्तर्मुहूर्तेन माध्यस्थ्यमाश्रित्य तत् कर्म प्रणिहन्ति यत् साम्यरहितेन तीव्रतपसापि न हन्यते ॥ ५१ ।। कर्म जीवं च संश्लिष्टं परिज्ञातात्मनिश्चयः । ॥१४४२ ॥ विभिन्नीकुरुते साधुः सामायिकशलाकया ॥ ५२ ॥ कर्म । सम्पृक्तं मिलितम् । पुनः पुनर्जात आत्मनिर्णयो येन । सामायिकमेव वंशमयी शलाका तया । यथा श्लेषद्रव्यसंपृक्तानां पत्रादीनां शलाकया पृथग्भावः क्रियते तथा जीव-कर्मणोरपि साम्येन विभेदः क्रियते ॥ ५२ ॥ रागादिध्वान्तविध्वंसे कृते सामायिकांशुना। स्वस्मिन् स्वरूपं पश्यन्ति योगिनः परमात्मनः ॥ ५३ ॥ रागा० । सामायिकसूर्येण स्वस्मिन् आत्मनि परमात्मनः स्वरूपं पश्यन्ति ।। ५३ ॥ 1 “साम्यसीमानमालम्ब्य कृत्वात्मन्यात्मनिश्चयम् । पृथक् करोति विज्ञानी संश्लिष्टे जीव-कर्मणी ॥ ११५२॥" इति ज्ञानार्णवे ॥ 2 " साम्यसूर्याशुनिभिन्ने रागादितिमिरोत्करे । प्रपश्यति शमी (यमी P विना) स्वस्मिन स्वरूप परमात्मनः ॥ ११५१ ॥" है इति ज्ञानार्णवे॥ EHEEEEEEEEEEEEEEEEEEEEEEEEEEETECH चतुर्थः प्रकाशः ॥१४४२।। Jain Education Inte l For Private & Personal Use Only 22w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy