SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ॥१४४१॥ रक्ष्यमाणमपि स्वान्तं समादाय मनाग मिषम् । पिशाचा इव रागाद्याश्छलयन्ति मुहुर्मुहुः ॥ ४७ ॥ रक्ष्यः । यमनियमादिभिर्गोप्यमानमपि मनः मनाक् स्वल्पं छलं पुरस्कृत्य रागाद्याः पिशाचा इव छलयन्ति आत्मवशं कुर्वन्ति वारंवारम् || ४७॥ रागादितिमिरध्वस्तज्ञानेन मनसा जनः । अन्धेनाऽन्ध इवाकृष्टः पात्यते नरकावटे ॥ ४८ ॥ रागा० । रागादय एव सन्मार्गदर्शनविघातहेतुत्वेन तिमिरम् , तेन ध्वस्तं ज्ञानं तत्त्वालोको यस्य तेन एवंविधेन मनसा जनो नरककूपे पात्यते ॥ ४८ ।। अस्ततन्द्ररतः पुम्भिनिर्वाणपदकाटिभिः । विधातव्यः समत्वेन राग-द्वेषद्विपज्जयः ॥ ४९ ॥ अस्त । निरस्तप्रमादैः पुम्भिः पुरुषधपितैः । अतो हेतोः । समत्वेन माध्यस्थ्येन । शेष स्पष्टम् ॥ १९॥ अमन्दानन्दजनने साम्यवारिणि मज्जताम् । जायते सहसा पुंसां राग-द्वेषमलक्षयः ॥ ५० ॥ अम । माध्यस्थ्यजलमवगाहमानानां सहसा अकस्मात् राग-द्वेषमलक्षयो जायते ॥ ५० ॥ 1 "इन्द्रियार्थानपाकृत्य स्वतत्त्वमवलम्बते। यदि योगी तथाप्येते छलयन्ति मुहुर्मुहुः ॥१११२॥” इति ज्ञानार्णवे। For Private & Personal use only o ॥१४४१॥ Jain Education Int a l + w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy