________________
षष्ठं परिशिष्टम्
मनःशुद्धथै च कर्तव्यो रागद्वेषविनिर्जयः ।
कालुष्यं येन हित्वाऽऽत्मा स्वस्वरूपेऽवतिष्ठते ।। ४५ ॥ मनः। प्रीत्यप्रीत्योनिरोधः उदितयोविफलीकरणेनानुदितयोश्चाऽनुत्पादनेन रागद्वेषविनिर्जयः कार्यः येनात्मा कालुप्यमशुद्धत्वं त्यक्त्वा स्वस्वरूपे परमशुद्धिलक्षणेऽवतिष्ठते स्थिरो भवति ।। १५॥
अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाश
॥१४४०॥
चतुष्टये
आत्मायत्तमपि स्वान्तं कुर्वतामत्र योगिनाम् ।
रागादिभिः समाक्रम्य परायत्तं विधीयते ॥ ४६॥ आत्मा० । आत्मनि निमग्नमपि मनः कुर्वतां योगिनां राग-द्वेष-मोहै: रक्तं द्विष्टं मूढं च कृत्वा परायत्तम आत्मनोऽवशं क्रियते ॥ ४६॥
रक्ष्यमाणमपि स्वान्तं समादाय मनाग् मिपम् ।
पिशाचा इव रागाद्याश्छलयन्ति मुहुर्मुहुः ॥ ४७ ॥ रक्ष्य० । यमनियमादिभिर्गोप्यमानमपि मनः मनाक् स्वल्पं छलं पुरस्कृत्य रागाद्याः पिशाचा इव छलयन्ति आत्मवशं कुर्वन्ति वारंवारम् ॥ ४७ ॥ 1 "आत्माधीनमपि स्वान्तं सद्यो रागः कलङ्कयते । अस्ततन्द्ररतः पूर्वमत्र यत्नो विधीयताम् ॥१११०॥” इति ज्ञानार्णवे॥
For Private & Personal Use Only
चतुर्थः प्रकाशः ।। १४४०॥
CBSCRIBEHCeleaseECSHESHESERVEREve
Jain Education
Telonal