SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ॥१४३७॥ BHEHEREGreeceCEGARCICIEWERENCHHEIGHERE वप्यमानांस्तपो मुक्ती गन्तुकामान् शरीरिणः । वात्येव तरलं चेतः क्षिपत्यन्यत्र कुत्रचित ।। ३६ ॥ तप्य । तपः कुर्वाणान् मुक्तौ सिद्धिपदे जिगमिषून् । वातानां समूह। वात्या। अन्यत्र कुत्रचित् मोक्षादन्यस्थाने क्षिपति नरकादौ ॥ ३६॥ अनिरुद्धमनस्कः सन् योगश्रद्धां दधाति यः। पद्भ्यां जिगमिषुामं स पङ्गरिव हस्यते ॥ ३७॥ अनि । अनिरुद्धमानसो यः पुमान् योगश्रद्धाम् ' अहं योगी' इत्यभिमानं धारयति यथा पङ्गः पादाभ्यां ग्रामं जिगमिषुविवेकिभिहस्यते तथा सोऽपि ।। ३७ ।। मनोरोधे निरुध्यन्ते कर्माण्यपि समन्ततः । अनिरुद्धमनस्कस्य प्रसरन्ति हि तान्यपि ॥ ३८ ॥ मनो० । मनोरोधे सति कर्माण्यपि समन्ततो निरुध्यन्ते, आश्रवद्वार निरोधात् । हि निश्चितं अनिरुद्धमनसः पुनः कर्माण्यपि प्रसरन्ति ॥ ३८ ॥ 1"तथान्यैरप्युक्तम्-'मनोरोधे भवेद् रुद्धं विश्वमेव शरीरिभिः । प्रायोऽसंवृतचित्तानां शेषरोधोऽप्यपार्थकः ॥ १०७७॥" । इति ज्ञानार्णवे॥ CHEHEREHEREMEMERMERSHIMDISHEREHCHERSHCHONEICHEHRISHCHESH ॥१४३७॥ Jain Education Internal For Private & Personal Use Only w.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy