SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ षष्ठ परिशिष्टम् अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाश| चतुष्टये चतुर्थः प्रकाशः ।।१४३६॥ एवं विषय एकैकः पञ्चत्वाय निषेवितः। कथं हि युगपत् पञ्च पञ्चत्वाय भवन्ति न? ॥ ३३ ॥ एवं० । एवं पूर्वोक्तरीत्या एकैकोऽपि शब्दादिविषयो निषेवितः पञ्चत्वाय मरणाय भवेत् । ततो युगपत् समकालं पश्चापि विषयाः सेविताः सन्तः कथं पञ्चत्वाय न भवन्ति, अपि तु भवन्त्येव ।। ३३ ।। तदिन्द्रियजयं कुर्यान्मनःशुद्धया महामतिः । यां विना यमनियमैः कायक्लेशो वृथा नृणाम् ॥ ३४ ॥ तदि० । यतः प्रागुक्तानर्थकारीणीन्द्रियाणि तस्मात् मनःशुद्धया तेषामिन्द्रियाणां जयं कुर्यात् | यां विना यमा मूलगुणा नियमा उत्तरगुणाः तैः कृत्वा कायक्लेशो वथा ॥ ३४ ॥ अत्रान्तरश्लोकाः १४ ।। __ मनः क्षपाचरो भ्राम्यन्नपशङ्कं निरङ्कशः। प्रपातयति संसारावर्त्तगर्ते जगत्त्रयीम् ॥ ३५ ॥ मनः । द्विविधं हि मनो द्रव्यमनो भावमनश्च । तत्र द्रव्यमनो विशिष्टाकारपरिणताः पुद्गलाः, भावमनस्तु संकल्परूप आत्मनः परिणामः । ततो भावमन एव क्षपाचरो राक्षसः, अविषयेऽपि प्रवृत्तिशीलत्वात् । निःशङ्कम् , निर्गतस्तत्त्वभावनादिरशो यस्मात् असौ निरङ्कुशः । संसार एवावर्त्तप्रधानो गर्तस्तत्र प्रपातयति ॥ ३५॥ 1 " एकैककरणपरवशमपि मृत्युं याति जन्तुजातमिदम् । सकलाक्षविषयलोलः कथमिह कुशली जनोऽन्यः स्यात् ॥ १०४८ ॥” इति ज्ञानार्णवे। For Private & Personal Use Only BREMIERREHEIREMEHEHEHEMEHEKSHIGHEHENSHETRICHCHEHEYE ॥१४३६॥ Jain Education Inte Jw.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy