________________
॥। १४३५ ॥
Jain Education
eeeeeeeee
नासादोषमाह
निपतन् मत्तमातङ्गकपोले गन्धलोलुपः । कर्णतालतलाघातान्मृत्युमाप्नोति षट्पदः ।। ३० ।।
निप० । गन्धलुब्धः कर्णताल एव तलश्चपेटस्तेन षट्पदो भ्रमरो मृत्युमाप्नोति ॥ ३० ॥
अथ रूपदोषमाह
कनकच्छेदसङ्काश शिखाऽऽलोकविमोहितः ।
रमसेन पतन् दीपे शलभो लभते मृतिम् ॥ ३१ ॥
कन० | सङ्काशः सदृशः | आलोको दर्शनम् । रभसेन औत्सुक्येन । शेषं स्पष्टम् ॥ ३१ ॥ अथ श्रवणेन्द्रियदोषमाह
हरिणो हारिणीं गीतिमाकर्णयितुमुद्धरः ।
कर्णाकृष्टचापस्य याति व्याधस्य वेध्यताम् ।। ३२ ।। [ पञ्चभिः कुलकम् ]
हरिणो० । हारिणीं मनोहरां गीतिमाकर्णयितुं श्रोतुम् उद्धरः सावधान: आकर्णं कर्णमभिव्याप्य आकृष्टं चापं येन तस्य वेध्यतां लक्ष्यत्वं याति ॥ ३२ ॥
For Private & Personal Use Only
arcelon
10
।। १४३५ ।।
www.jainelibrary.org